वाचस्पत्यम्
रुक्ष || त्रि० रुह—क्स । १ अचिक्कणे २ निःस्नेहे ३ कठोरे च अमरः
शब्दकल्पद्रुमः
रुक्षः || त्रि अप्रेम । अचिक्वणः । रुहधातो- रौणादिकसप्रत्ययेन निष्पन्नः । इत्युणादिकोषः ॥ (नीरसः । तद्यथा, वायुस्वरूपवर्णने । “दोषधातुमलादीनां नेता शीघ्रः समीरणः । रजोगुणमयः सूक्ष्मो रुक्षः शीतो लघुश्चलः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)