वाचस्पत्यम्
रुचिराञ्जन || पु० अज्यतेऽनेन अन्ज—करणे ल्युट् रुचिरः शोभायुक्तोऽञ्जनः । शोभाञ्जने (शजिना) राजनि० ।
शब्दकल्पद्रुमः
रुचिराञ्जनः || पुं, (रुचिरः सुन्दरोऽञ्जनः ।) शोभाञ्जनः । इति राजनिर्घण्टः ॥