शब्दकल्पद्रुमः
रुचिराश्वः || पुं, (रुचिरः सुन्दरोऽश्वो यस्य ।) राजविशेषः । स तु देवापेः श्वशुरः । यथा, — “मरो भूपाललोकानां स्यस्तये कुरु मे वचः । रुचिराश्वसुतां शान्तां देवापे त्वं समुद्बह ॥” इति कल्किपुराणे १८ अध्यायः ॥ सुन्दरघोटकश्च ॥