वाचस्पत्यम्
रुजाकर || न० रुजां रोगं करोति ह्य—अच् । १ कर्मरङ्गफले (कामराङ्गा) शब्दच० २ रोगकारके त्रि० । ३ व्याधौ पु० हेमच० ।
शब्दकल्पद्रुमः
रुजाकरं || क्ली (रुजां रोगं करोतीति । कृ + टः ।)
कर्म्मरङ्गफलम् । इति शब्दचन्द्रिका ॥
शब्दकल्पद्रुमः
रुजाकरः || पुं, (रुजां करोतीति । कृ + टः ।)
व्याधिः । यथा । व्याधिस्त्वाधी रुजाकरः । इति हेमचन्द्रः । २ । २२६ ॥ (व्याधिकारके, त्रि ॥)