संस्कृत-शब्दकोशः

रुणस्करा रुण्डिका

रुण्ड

वाचस्पत्यम्

रुण्ड ||‍ पु० रुटि—अच् पृषो० ठस्य डः । १ मूर्द्धशून्यदेहे कबन्धे जटा० ।


शब्दकल्पद्रुमः

रुण्डः || पुं, कबन्धः । इति जटाधरः ॥ (छिन्नपाद- हस्तः । यथा, कथासरित्सागरे । ६५ । ११ । “तेनारोप्य स्थलं पृष्ठः स रुण्डः पुरुषोऽभ्यधात् । निकृत्तहस्तचरणो नद्यां क्षिप्तोऽस्मि शत्रुभिः ॥”)



Correction: