वाचस्पत्यम्
रुदन्ति(न्ती)का || स्त्री रुद—झश् गौरा० ङीष् । संज्ञायां कन् वा । क्षुद्रक्षुपभेदे राजनि० “चणपत्रसमं पत्रं क्षुपश्चैव तथाकृतिः । शैशिरे जलविन्दूनां स्रवन्तीति रुदन्तिका । रुदन्ती वह्निकृद्वृष्या पित्तघ्नो च रसायना” राजव० ।
शब्दकल्पद्रुमः
रुदन्तिका || स्त्री (रोदनं रुत् । अति अदि वन्धने + अच् + ङीप् । स्वार्थे कन् च ।)
क्षुद्रक्षुपविशेषः । तत्पर्य्यायः । स्रवत्तोया २ सञ्जीवनी ३ अमृतस्रवा ४ रोमाञ्चिका ५ महामांसी ६ चणपत्री ७ सुधास्रवी ८ । अस्या गुणाः । कटुत्वम् । तिक्तत्वम् । उष्णत्वम् । कषा- यत्वम् । कृमिरक्तपित्तकफश्वासमेहनाशित्वम् । रसायनत्वञ्च । अस्य स्वरूपं यथा, —
“चणपत्रसमं पत्रं क्षुपश्चैव तथाकृतिः । शैशिरे जलबिन्दूनां स्रवन्तीति रुदन्तिका ॥” इति राजनिर्घण्टः ॥