शब्दकल्पद्रुमः
रुद्रगणः || पुं, (रुद्रस्य गणः ।)
शिवपार्षदसमूहः । यथा, —
“अपरे रुद्रनामानो जटाचन्द्रार्द्धमण्डिताः । देवेन्द्रस्य नियोगेन वर्त्तन्ते त्रिदिवे सदा ॥ तेषां संख्या चैककोटिस्ते सर्व्वे बलवत्तराः । कुर्व्वन्ति हि सदा सेवां हरस्य सततं गणाः ॥ विस्मयन्ति च पापिष्ठान् धर्म्मिष्ठान् पालयन्ति च । अंनुगृह्णन्ति सततं धृतपाशुपतव्रतान् ॥ विघ्नांश्च सततं हन्ति योगिनां प्रयतात्मनाम् । षट्त्रिंशत्कोटयश्चैव हरस्य सकला गणाः ॥ वराहगणनाशार्थं हिताय जगतां तथा । शङ्करस्याथ सेवायै समुत्पन्ना इमे गणाः ॥” इति कालिकापुराणे २९ अध्यायः ॥