वाचस्पत्यम्
रुद्रचण्डी || स्त्री रुद्रयामलोक्ते देवीमाहात्मप्रतिपापकग्रन्थे
शब्दकल्पद्रुमः
रुद्रचण्डी || स्त्री (रुद्रा चण्डी ।)
रुद्रयामलोक्त- देवीमाहात्म्यम् । यथा । “अस्य चण्डिका- महामन्त्रस्य महारुद्र ऋषिरनुष्टुप् छन्द- श्चण्डिका देवता रुद्रचण्डीजपे विनियोगः । ॐ नमश्चण्डिकायै । श्रीशङ्कर उवाच । चण्डिकां हृदंये न्यस्य स्मरणं यः करोत्यपि । अनन्तफलमाप्नोति देवि चण्डीप्रसादतः ॥ रविवारे यदा चण्डीं पठेदागमसम्मताम् । नवावृत्तिफलं तस्य जायते नात्र संशयः ॥ सोमवारे यदा चण्डीं पठेद्यस्तु समाहितः । सहस्रावृत्तिपाटस्य फलं जानीहि सुव्रते ॥ कुजवारे जगद्धात्रि पठेद्यामलसम्मताम् । शतावृत्तिफलं तस्य बुधे लक्षफलं भवेत् ॥ गुरौ यदि महामाये लक्षयुग्मफलं ध्रुवम् । शुक्रे देवि जगद्धात्रि चण्डीपाठेन शङ्करि ॥ ज्ञेयं तुल्यफलं दुर्गे यदि चण्डीं समाहितः । शनिवारे जगद्धात्रि कोट्यावृत्तिफलं ध्रुवम् ॥ अतएव जगद्धात्रीं यश्च चण्डीं समभ्यसेत् । स धन्यश्च कृतार्थश्च राजराजाधिपो भवेत् ॥ आरोग्यं विजयं सौख्यं वस्त्ररत्नप्रवालकम् । पठनाच्छ्रवणाच्चैव जायते नात्र संशयः ॥ धनं धान्यं प्रवालञ्च वस्त्ररत्नविभूषितम् । चण्डीस्मरणमात्रेण कुर्य्यात् सर्व्वं महेश्वरि ॥ ॐ घोरचण्डी महाचण्डी चण्डमुण्डविखण्डिनी । चण्डवक्त्रा महामाया महादेवविभूषिता ॥ चतुर्वक्त्रा इत्यपि पाठः । रक्तदन्ता वरारोहा महासुरविमर्द्दिनी । तारिणी जननी दुर्गा चण्डिका चण्डविक्रमा ॥ गुह्यकाली जगद्धात्री चण्डी च यामलोद्भवा । श्मशानवासिनी देवी घोरचण्डी भयानका ॥ शिवा घोरा रुद्रचण्डी महेशगणभूषिता । जाह्नवी परमा कृष्णा महात्रिपुरसुन्दरी ॥ विद्या श्रीपरमा विद्या चण्डी च वैरमर्द्दिनी । दुर्गे दुर्गा शिवा घोरा चण्डहन्त्री प्रचण्डिका ॥ महेशी वगला देवी भैरवी चण्डविक्रमा । प्रमथैर्भूषिता कृष्णा चामुण्डा मुण्डमर्द्दिनी ॥ रणघण्टा चण्डघण्टा रणरामवरप्रदा । तारिणी भद्रकाली च शिवा घोरा भयानका ॥ विष्णुप्रिया महामाया नन्दगोपगृहोद्भवा । मङ्गला जननी चण्डी महाक्रुद्धा भयङ्करी ॥ विमला भैरवी निद्रा जातिरूपा मनोहरा । तृष्णा निद्रा क्षुधा माया शक्तिरूपा मनोहरा ॥ तस्यै देव्यै नमस्तस्यै सर्व्वरूपेण संस्थिता । प्राणप्रिया जातिमाया निद्रारूपा महेश्वरी ॥ या देवी सर्व्वभूतेषु सर्व्वरूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ एतां चण्डीं जगद्धात्रीं ब्राह्मणस्तु सदा पठेत् । नान्यस्तु पाठको देवी पठने ब्रह्महा भवेत् ॥ नारदः पाठकश्चैव कैलासे रत्नभूषिते । वैकुण्ठे ब्रह्मलोके च देवराजपुरे शिवे ॥ यः शृणोति धरायाञ्च मुच्यते सर्व्वपातकैः । ब्रह्महत्या च गोहत्या स्त्रीवधोद्भवपातकम् ॥ तत् सर्व्वं पातकं दुर्गे मातुर्गमनपातकम् । श्वश्रूगमनपापञ्च यत् कन्यागमपातकम् ॥ सुतस्त्रीगमनञ्चैव यत् यत् पापं प्रजायते । परदारकृतं पापं तत्क्षणादेव नश्यति ॥ जन्मजन्मान्तरात् पापात् गुरुहत्यादिपातकात् । मुच्यते मुच्यते देवि गुरुपत्नीषु सङ्गमात् ॥ मनसा वचसा पापं यत् पापं ब्रह्महिंसने । मिथ्यायाञ्चैव यत् पापं तत् पापं नश्यति क्षणात् ॥ श्रवणं पठनञ्चैव यः करोति धरातले । स धन्यश्च कृतार्थश्च राजराजाधिपो भवेत् ॥ यः करिष्यत्यवज्ञां वै रुद्रयामलचण्डिकाम् । पापैरेतैः समायुक्तो रौरवं नरकं व्रजेत् ॥ अश्रद्धां ये प्रकुर्व्वन्ति ते च पातकिनो नराः । रौरवं रक्तकुण्डञ्च कृमिकुण्डं मलस्य वै ॥ शुक्रस्य कुण्डं स्त्रीरक्तं यान्ति तेऽप्यचिरेण वै । ततः पितृगणैः सार्द्धं बिष्ठायां जायते कृमिः ॥ शृणु देवि महामाये पठेत् चण्डीं शृणोत्यपि । गयायाञ्चैव यत् पुण्यं काश्यां विश्वेश्वराग्रतः ॥ प्रयागे मुण्डनञ्चैव हरिद्वारे हरेर्गृहे । तुल्यं पुण्यं भवेद्देवि सत्यं दुर्गे शिवे रमे ॥ त्रिगयायां त्रिकाश्यां वै यच्च पुण्यं शृणु प्रिये । तच्च पुण्यं तच्च पुण्यं तच्च पुण्यं न संशयः ॥ भवानी च भवानी च भवानीत्युच्यते बुधैः । भकारस्तु भकारस्तु भकारः केवलः शिवः ॥ वानी चैव जगद्धात्री वरारोहे भकारकः । प्रेतवद्देवि विश्वेशि भकारः प्रेतवत् सदा ॥ आरोग्यञ्च जयं दुःखनाशनं सुखवर्द्धनम् । धनं पुत्त्रं जयारोग्यं कुष्ठं गलितनाशकम् ॥ अर्द्धाङ्गरोगान्मुच्येत दद्रुरोगाद्धि पार्व्वति । सत्यं सत्यं जगद्धात्रि महामाये शिवे रमे ॥ चण्डे चण्डे महाघोरे चण्डिके व्याधिनाशिनि । मन्दे दिने महेशानि विशेषफलदांयिनी ॥ सर्व्वदुःखात् प्रमुच्येत भक्त्या चण्डीं शृणोति यः । ब्राह्मणो हितकारी च पठेन्नियतमानसः ॥ मङ्गलं मङ्गलं ज्ञेयं मङ्गलं जयमङ्गलम् । भवेद्धि पुत्त्रपौत्त्रादिकन्यादासादिभिर्युतः ॥ तत्त्वज्ञानञ्च निधने काले निर्व्वाणमाप्नुयात् । महादानोद्भवं पुण्यं तुलाहिरण्यके यथा ॥ चण्डीश्रवणमात्रेण पठनाद्ब्राह्मणोऽपि सः । निर्व्वाणमेति देवेशि महास्वस्त्ययनं हि तत् ॥ सर्व्वत्र विजयं याति श्रवणाद्ग्रहदोषतः । मुच्यते सर्व्वपापेभ्यो राजराजाधिपो भवेत् ॥ महाचण्डी शिवा घोरा भयानकवरप्रदा । काली च कमला विद्या महोरगविमर्द्दिनी ॥ गुह्यचण्डी घोरचण्डी चण्डी त्रैलोक्यदुर्लभा । देवानां दुर्लभा चण्डी रुद्रयामलसम्भवा ॥ अप्रकाश्या महादेवप्रिया रावणमर्दिनी । मत्स्यप्रिया मांसरता मत्स्यमांसबलिप्रिया ॥ मदमत्ता सदा नित्या भूतप्रमथसङ्गता । मध्यभागा महारामा धान्यदा धनरत्नदा ॥ वस्त्रदा मणिदा राज्यप्रदा विषयवर्द्धिका । मुक्तिदा सर्व्वदा चण्डी महाविपदनाशिनी ॥ इमाञ्च चण्डीं पठते मनुष्यः शृणोति भक्त्या परमां शिवस्य । चण्डीं धरण्यामतिपुण्ययुक्तः पटेच्च गच्छेद्धरमन्दिरं शुभम् ॥ यद्यन्मनोरथान् दुर्गे करोति धरणीतले । रुद्रचण्डीप्रसादेन किं न सिध्यति भूतले ॥ रुद्रध्येया रुद्ररूपा रुद्राणी रुद्रवल्लभा । रुद्रभक्ता रुद्ररूपा रुद्रभूषासमन्विता ॥ शिवचण्डी महारक्ता शिवप्रीतिगणान्विता । भैरवी परमा विद्या महाविद्या च षोडशी ॥ सुन्दरी परमा विद्या महात्रिपुरसुन्दरी । गुह्यकाली भद्रकाली महाकालविमर्द्दिनी ॥ कृष्णा कृष्णस्वरूपा सा जननी मोहकारिणी । अतितन्द्रा महालज्जा सर्व्वमङ्गलदायिनी ॥ घोरचण्डी भीमरूपा भीमा देवी मनोहरा । वगला वगला सिद्धिदायिका सर्व्वदा शिवा ॥ स्मृतिरूपा कीर्त्तिरूपा बुद्धिरूपा मनोहरा । विष्णुप्रिया शक्रपूज्या योगेन्द्रैरपि सेविता ॥ भयानका महासूक्ष्मा देवी भयविनाशिनी । चण्डिका शक्तिहस्ता च कौमारी सर्व्वकामदा ॥ वाराही च वराहस्य इन्द्राणी शक्रपूजिता । माहेश्वरी महेशस्य महेशगणभूषिता ॥ चामुण्डा नारसिंही च नृसिंहशत्रुनाशिनी । सर्व्वशत्रुप्रशमनी सर्व्वारोग्यप्रदायिनी ॥ नैव दुःखं भयं किञ्चित् पठनात् श्रवणाज्जनः । इति सत्यं महेशानि सत्यं सत्यं वदाम्यहम् ॥ नेव शोकं नैव रोगं नैव दुःखं भयन्तथा । आरोग्यं मङ्गलं नित्यं करोति शुभमङ्गलम् ॥ महेशानि वरारोहे ब्रवीमि सत्यमुत्तमम् । अभक्ताय न दातव्यं मम प्राणाधिकं शुभम् ॥ मम भक्ताय शान्ताय शिवविष्णुप्रियाय च । दद्यात् कदाचिद्देवेशि सत्यं सत्यं न संशयः ॥ अनन्तफलमाप्नोति शिवचण्डीप्रसादतः । अश्वमेधवाजपेयराजसूयशतेन वै । तृप्ताः स्युः पितरो देवास्तथा च सर्व्वदेवताः ॥ दुर्गे त्वां मृण्मयीज्ञानं रुद्रयामलपुस्तकम् । मन्त्रमक्षरसंज्ञानं यः करोति नराधमः ॥ अतएव महेशानि किं वक्ष्ये तव सन्निधौ ॥ लम्बोदराधिकश्चण्डीपठनाच्छ्रवणात् जनः । तत्त्वमसीति वाक्येन मुक्तिमाप्नोति दुर्लभाम् ॥” इति श्रीरुद्रयामले हरगौरीसंवादे रुद्रयामल- चण्डी समाप्ता ॥