संस्कृत-शब्दकोशः

रुद्रज रुद्रपत्नी

रुद्रजटा

वाचस्पत्यम्

रुद्रजटा ||‍ स्त्री रुद्रस्य जटेव पिङ्गत्वात् जटिलत्वाच्च । १ स्व- नामख्याते लताभेदे राजनि० “कटूरुद्रजटा श्वासकास हृद्रोगनाशिनी । भूतरक्षोनाशिनी च” रुद्रलताप्यत्र ।


शब्दकल्पद्रुमः

रुद्रजटा || स्त्री (रुद्रस्य जटेव ।)
लताविशेषः ॥ तत्पर्य्यायः । रौद्री २ जटा ३ रुद्रा ४ सौम्या ५ सुगन्धा ६ सुवहा ७ घना ८ ईश्वरी ९ रुद्र- लता १० सुपत्रा ११ सुगन्धपत्रा १२ सुरभिः १३ शिवाह्वा १४ पत्रवल्ली १५ जटावल्ली १६ रुद्राणी १७ नेत्रपुष्करा १८ महाजटा १९ जटारुद्रा २० । अस्या गुणाः । कटुरसत्वम् । श्वासकासहृद्रोगभूतरक्षोनाशित्वञ्च । इति राजनिर्घण्टः ॥



Correction: