संस्कृत-शब्दकोशः

रुद्रभू रुद्रवीणा

रुद्रविंशति

वाचस्पत्यम्

रुद्रविंशति ||‍ स्त्री रुद्रस्वामिका विंशतिः । प्रभवादिष षष्टिवत्- सरेषु अन्तिमेषु विशतिवर्षेषु । प्रभवादिशब्दे ४४७३ पृ० दृश्यम् ।


शब्दकल्पद्रुमः

रुद्रविंशतिः || स्त्री (रुद्रदेवताका विंशतिः ।)
प्रभ- वादिषष्टिवर्षान्तर्गतशेषविंशतिवर्षाणि । तेषां नामानि फलानि च यथा, —
“आद्या तु विंशतिर्ब्राह्मी द्बितीया वैष्णवी स्मृता । तृतीया रुद्रदैवत्या श्रेष्ठा मध्याधमा भवेत् ॥ तृणधान्यानि पीड्यन्ते ग्रीष्मे वर्षति वासवः । प्लवङ्गे पीडिताः सर्व्वाः प्रजाश्च सुरवन्दिते ॥ १ ॥ जायन्ते सर्व्वशस्यानि सुभिक्षं निरुपद्रवम् । सौम्यदृष्टिर्भवेद्राजा कालिके च शुभं वदेत् ॥ २ ॥ सुभिक्षं क्षेममारोग्यं सुखञ्च निरुपद्रवम् । सौम्यदृष्टिर्भवेद्राजा सौम्ये सौख्यं प्रकीर्त्तितम् ॥ ३ ॥ तोयपूर्णो भवेन्मेघो वर्षते च दिने दिने । निरुपद्रवाश्च राजानः सर्व्वसाधारणे प्रिये ॥ ४ ॥ वासवो वर्षते देवि देशे चाखण्डमण्डले । अहिच्छत्रे कान्यकुब्जे विरोधी कृषिनाशकृत् ॥ ५ ॥ अभिभूतं जगत् सर्व्वं क्लेशैर्ब्बहुविधैः प्रिये । मारुतैः फलदाहैश्च परिवारिणि शोभने ॥ ६ ॥ निष्पत्तिः सर्व्वशस्यानां सुभिक्षं भवति प्रिये । प्रमाथिनि जलोद्गारी जलदो मोदते प्रजा ॥ ७ ॥ निष्पत्तिः सर्व्वशस्यानां सर्व्वशस्यमहार्घता । घृतं तैलसमं याति आनन्दे नन्दिनी प्रजा ॥ ८ ॥ कोद्रवाः शालिमुद्गाश्च पीड्यन्ते वरवर्णिनि । सर्व्वौषधानि धान्यानि राक्षसे निष्ठुरा प्रजा ॥ ९ ॥ दुर्भिक्षं जायते घोरं धान्यौषधिप्रपीडनम् । अनले च समाख्यातं नात्र कार्य्या विचारणा ॥ १० ॥ देशभङ्गोऽथ दुर्भिक्षं समासात् कथयाम्यहम् । पिङ्गले चारुपद्माक्षि दुर्भिक्षं नर्म्मदातटे ॥ ११ ॥ गोमहिष्यो विनश्यन्ति ये चान्ये नटनर्त्तकाः । वासवो वर्षते देवि शस्यञ्च नहि जायते ॥ तिलसर्षपमाषादिकार्पासानां महार्घता । गोमहिष्यः सुवर्णानि कांस्यताम्राद्यशेषतः ॥ तत् सर्व्वं देवि विक्रीय कर्त्तव्यो धान्यसञ्चयः । तेन धान्येन लोकोऽयं निस्तरिष्यति दुर्द्दिनम् । पार्थिवा मोषका दीनाः कामयुक्ते प्रपी- डिताः ॥ १२ ॥ तोयपूर्णाः स्मृता मेघा बहुशस्या च मेदिनी । निष्ठुराः पार्थिवा देवि सिद्धार्थे च वरानने ॥ १३ ॥ अल्पतोया घनाश्चैव कीटकाः प्रबलाः स्मृताः । विरुद्धाः पार्थिवा देवि रौद्रे वर्षे वरानने ॥ १४ ॥ दुर्भिक्षं मध्यमं प्रोक्तं व्यवहारो न वर्त्तते । भवेद्वै मध्यमा वृष्टिर्दुर्म्मतौ समुपस्थिते ॥ १५ ॥ सुभिक्षं जायते लोकः सर्व्वोपद्रववर्जितः । प्राणिनां जायते हर्षो दुन्दुभौ वरवर्णिनि ॥ १६ ॥ महिषीगोहिरण्यादिताम्रकांस्याद्यशेषतः । तत् सर्व्वं देवि विक्रीय कर्त्तव्यो धान्यसञ्चयः ॥ रक्ते संवत्सरे देवि क्रूरबुद्धिर्नराधिपः । मानवाः क्रूरचेष्टाश्च संग्रामे न जयो भवेत् ॥ १७ ॥ दुर्भिक्षं मरणं रोगो धान्यौषधिनिपीडनम् । पापरोगो भवेद्देवि रक्ताख्येऽमरवन्दिते ॥ १८ ॥ रोगो मरणदुर्भिक्षं विविधोपद्रवाकुलम् । क्रोधे तु विषमं सर्व्वं समाख्यातं हरप्रिये ॥ १९ ॥ मेदिनी चलते देवि सर्व्वभूतं चराचरम् । देशभङ्गश्च दुर्भिक्षं क्षये संक्षीयते प्रजा ॥ सौराष्ट्रे मालवे देशे दक्षिणे कोङ्कणे तथा । दुर्भिक्षं जायते घोरं क्षये संवत्सरे प्रिये ॥ कौमुदीचर्म्मनद्योश्च यमुनानर्म्मदातटे । बिन्ध्यायां सैन्धवे चैव विनश्यति न संशयः ॥ सिंहलो मरुदेशश्च कालञ्जरं तथैव च । क्षये क्षयन्ति सर्व्वाणि नान्यथा वरवर्णिनि ॥” २० इति ज्योतिस्तत्त्वम् ॥



Correction: