शब्दकल्पद्रुमः
रुद्रसर्गः || पुं, (रुद्रकृतः सर्गः ।)
रुद्रकर्त्तृकसृष्टिः । यथा, —
“इदानीं रुद्रसर्गं त्वं शृणु पार्थिवसत्तम ! । दशवर्षसहस्राणि तपश्चीर्त्वा महाजले ॥ प्रतिबुद्धो यदा रुद्रस्तदा चोर्वीं सकाननाम् । दृष्ट्वा शस्यवतीं रम्यां मनुष्यपशुसंकुलाम् ॥ शुश्राव च तदा शब्दानृत्विजां दक्षसद्मनि । आश्रमे यज्विनाञ्चोच्चैर्योगस्थैरिति कीर्त्तितान् ॥ ततः श्रुत्वा महातेजाः सर्व्वज्ञः परमेश्वरः । चुकोप सुभृशं देवो वाक्यञ्चेदमुवाच ह ॥ अहं पूर्ब्बन्तु कविना सृष्टः सर्व्वात्मना विभुः । प्रजाः सृजस्वेति तदा वाक्यमेतत्तथोक्तवान् ॥ इदानीं केन तत् कर्म्म कृतं सृष्ट्यादिवर्णनम् । एवमुक्त्वा भृशं कोपान्ननाद परमेश्वरः ॥ तस्य ता नदतो ज्वालाः श्रोत्रेभ्यो निर्ययुस्तदा । तत्र भूतानि वेताला उच्छ्रुष्माः प्रेतपूतनाः ॥ कुष्माण्डा यातुधानाश्च सर्व्वे प्रज्वलिताननाः । उत्तस्थुः कोटिशस्तत्र नानाप्रहरणावृताः ॥” इति वराहपुराणम् ॥