शब्दकल्पद्रुमः
रुधिराख्यं || क्ली (रुधिरमिति आख्या यस्य ।)
मणिभेदः । यथा, —
“हुतभुग्रूमादाय दानवस्य यथेप्सितम् । नर्म्मदायां निचिक्षेप किञ्चिद्धीनादि भूतले ॥ तत्रेन्द्रगोपकलितं शुकवक्त्रवर्णं संस्थानतः प्रकटपीलुसमानमात्रम् । नानाप्रकारविहितं रुधिराख्यरत्न- मुद्धृत्य तस्य खलु सर्व्व समानमेव ॥ मध्येन्दुपाण्डरमतीवविशुद्धवर्णं तच्चेन्द्रनीलसदृशं पटलं तुले स्यात् । सैश्वर्य्यभृत्यजननं कथितं तदेव पक्वञ्च तत् किल भवेत् सुरवज्रवर्णम् ॥” इति गारुडे ७८ अध्यायः ॥