शब्दकल्पद्रुमः
रुवूकः || पुं, एरण्डवृक्षः । इत्यमरः ॥ (तथास्य पर्य्यायः । “शुल्कएरण्ड आमण्डुश्चित्रो गन्धर्व्वहस्तकः । पञ्चाङ्गुलो वर्द्धमानो दीर्घदण्डोऽप्यदण्डकः ॥ वातारिस्तरुणश्चापि रुवूकश्च निगद्यते । रक्तोऽपरो रुवूकः स्यादुरुवूको रुवूस्तथा ॥ व्याघ्रपुच्छश्च वातारिश्चञ्चुरुत्तानपादकः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)