संस्कृत-शब्दकोशः

रुष्ट रुहक

रुह

वाचस्पत्यम्

रुह ||‍ उद्भवे भ्वा० पर० अक० अनिट । रोहति अरुक्षत् । ज्वलारोहः रुहः ।


वाचस्पत्यम्

रुह ||‍ त्रि० रुह—क । १ जाते २ दूर्वायां स्त्री अमरः उत्तर- पदस्थः तत्प्रादूर्भूते त्रि० यथा भूरुहः वारिरुहम् ।


शब्दकल्पद्रुमः

रुह || ञि ज औ जन्याम् । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-अक०-अनिट् ।)
ञि, रूढोऽस्ति । ज, रोहः रुहः । औ, अरुक्षत् । जनिर्जन्म । रोहति जन्तुर्ज्जायते इत्यर्थः । रुह जन्मनि प्रादुर्भावे इति प्राञ्चः । जन्मप्रादुर्भावयोरेको- ऽर्थः । इति गोविन्दभट्टचतुर्भुजमिश्रौ । रमा- नाथस्तु प्रादुर्भावः स्फूर्त्तिरिति भेदमाह । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

रुहः || त्रि (रोहतीति । रुह + “इगुपधज्ञेति । ३ । १ । १३५ । इति कः ।)
जातः । आरूढः । (यथा, मनुः । १ । ४८ । “बीजकाण्डरुहाण्येव प्रताना वल्ल्य एवच ॥”)



Correction: