शब्दकल्पद्रुमः
रुहा || स्त्री (रोहति छिन्नापि पुनरुत्पद्यते इति । रुह + कः । टाप् ।)
दूर्व्वा । इत्यमरः ॥ (अस्याः पर्य्यायो यथा, —
“सहस्रवीर्य्या दूर्व्वा तु मङ्गल्या भार्गवी रुहा ॥” इति वैद्यकरत्नमालायाम् ॥ “नीलदूर्व्वा रुहानन्ता भार्गवी शतपर्व्विका । शष्पं सहस्रवीर्य्या च शतवल्ली च कीर्त्तिता ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
महासमङ्गा । इति राजनिर्घण्टः ॥