वाचस्पत्यम्
रूक्ष || त्रि० रूक्ष—अच् । १ अचिक्कणे २ स्नेहशून्थे च ३ वृक्ष पु० हेमच० । ४ दत्वीवृक्षे स्त्री राजनि० ।
वाचस्पत्यम्
रूक्ष || पारूष्ये कठोरतायाम् निःस्नेहे च अद० चु० उभ० अक० सेट् । रूक्षयति ते अरुरूक्षत् त ।
शब्दकल्पद्रुमः
रूक्ष || त् क पारुष्ये । इति कविकल्पद्रुमः ॥ (अदन्त चुरा०-पर०-अक०-सेट् ।)
“दीर्घी । तथा च । ‘स पुनातु व्रजे यश्च गोरजःपातरूक्षितौ । शिशुरुच्छिद्य यमजौ निष्पिपेष तरू क्षितौ ॥’ इति कीचकयमकम् ॥ पारुष्यमस्निग्धीभावः । रूक्षयति रूक्षापयति केशः तैलाभावादिति शेषः ।” इति दुर्गादासः ॥
शब्दकल्पद्रुमः
रूक्षं || त्रि (रूक्षयतीति । रूक्ष पारुष्ये + पचा- द्यच् ।)
अप्रेम । अचिक्वणम् । इत्यमरः । ३ । ३ । २२४ ॥ (यथा, महाभारते । १ । १५३ । ६ । “ऊर्द्ध्वाङ्गुलिः स कण्डूयन् धुन्वन् रूक्षान् शिरो- रुहान् ॥”)
शब्दकल्पद्रुमः
रूक्षः || पुं, वृक्षः । इति हेमचन्द्रः ॥ वरकतृणम् ॥ इति राजनिर्घण्टः ॥