वाचस्पत्यम्
रूप || न० रूप—क भावे अच् वा । १ स्वभाव, २ सौन्दर्य्ये, ३ पशौ, ४ नाम्नि, ५ शब्दे, ६ ग्रन्थावृत्तौ, ७ दृश्यकाव्ये नाटकादौ ८ श्लोके ९ आकारे च मेदि० । शब्दधातूनां विभक्तियोगेन १० निष्पन्नशब्दे, ११ शुक्लादिवर्णे च १२ तद्गति त्रि० । उत्तरपदस्थः सदृशार्थे त्रि० यथा पित्ररूपस्तनय मातृ- रूपा कन्या । १३ एकसंख्यान्विते न० “रूपं भजेत् स्यात् परिपूर्त्तिकालः” लीलावती । “एकाव्यक्तं शोधयेदन्य- पक्षात् रूपाण्यन्यस्येतरस्माच्च पक्षादिति” वौजगणितोक्ते १४ अव्यक्तराशिसहचरितव्यक्तसंख्यान्विते च । आकारव- र्णरूपरूपस्य षोडश भेदाः तत्र परिमाणकृता रूपाकारस्य ह्रस्वदीर्घथतुरस्ववृत्तेति पञ्च भेदाः । वर्णस्य ग्रक्लकृष्ण नीलारुणरक्तषीतेति पञ्च भेदाः स्पर्शकृता आकारभेदाः कठिनचिक्कणश्लक्ष्णपिङ्गलमृदुदारणेति पञ्च भदाः इति षोडशविधा भा० शा० उक्ताः । वैशेविकनये “चक्षु- र्ग्राह्यं तवेद्रूपं द्रव्यादेरुपलम्भकम् । चक्षुषः महकारि स्यात् शुक्लादिकमनेकधा” भाषा० । तच्च उद्भूतानुद्भूत- भेदेन द्विविधम् “उद्भूतरूपं नयनस्य गोचरः” भागोक्तेः उद्भूतरूपस्यैव प्रत्यक्षविषयता न परमाणुगतानुद्भूतस्य । तच्च पृथिव्यप्तेजसां गुणः “रूपद्रवत्वप्रत्यक्षयोगि स्यात् प्रथमं त्रिकम” भाषा० उक्तेः । सौन्दर्य्यरूपलक्षणमुज्ज्वल- मणिनोक्तं यथा “अङ्गान्धभूषितान्थेव केनचित् भूषणा- दिना । येन भूषितवद्भान्ति तदूपमिति कथ्यते” ।
वाचस्पत्यम्
रूप || रूपान्वितकरणे चुरा० उभ० सक० सेट् । रूपयति ते अरुरूपत् त । नि + प्रमाणोपन्यासेन स्वरूपादिकथने ।
शब्दकल्पद्रुमः
रूपं || क्ली (रूयते कीर्त्त्यते रौतीति वा । रु + “खष्पशिल्पशष्पेति ।” उणा० ३ । २८ । इति पः दीर्घश्च । रूपयतीति । रुप् + अच् वा ।)
स्वभावः । सौन्दर्य्यम् । नामकम् । पशुः । शब्दः । ग्रन्थावृत्तिः । नाटकादिः । आकारः । (यथा, मनुः । ७ । ७७ । “तदध्यास्योद्बहेद्भार्य्यां सवर्णां लक्षणान्विताम् । कुले महति सम्भूतां हृद्यां रूपगुणान्विताम् ॥”)
श्लोकः । इति मेदिनीशब्दरत्नावलीभूरि- प्रयोगाः ॥ (स्वरूपम् । यथा, मनुः । ८ । ४५ । “देशं रूपञ्च कालञ्च व्यवहारविधौ स्थितः ॥”)
शुक्लादिः । नामकस्थाने नाणकम् । इति नानार्थरत्नमालाविश्वहेमचन्द्राः ॥ * ॥
रूपन्तु षोडशविधम् । यथा । ह्रस्वम् १ दीर्घम् २ स्थूलम् ३ चतुरस्रम् ४ वृत्तम् ५ शुक्लम् ६ कृष्णम् ७ नीलारुणम् ८ रक्तम् ९ पीतम् १० कठिनम् ११ चिक्कणम् १२ श्लक्ष्णम् १३ पिच्छि- लम् १४ मृदु १५ दारुणम् १६ । इति महा- भारते मोक्षधर्म्मः ॥ * ॥
तस्य लक्षणं यथा, —
“अङ्गान्यभूषितान्येव केनचिद्भूषणादिना । येन भूषितवद्भान्ति तद्रूपमिति कथ्यते ॥” इत्युज्ज्वलनीलमणिः ॥ न्यायमते तत् चक्षुरिन्द्रियग्राह्यम् । द्रव्यादि- प्रत्यक्षकारणम् । चक्षुः सहकारि । शुक्लाद्य- नेकप्रकारम् । जलादिपरमाणुरूपं नित्यम् । अन्यत्र अनित्यम् । यथा, —
“चक्षुर्ग्राह्यं भवेद्रूपं द्रव्यादेरुपलम्भकम् । चक्षुषः सहकारि स्याच्छुक्लादिकमनेकधा । जलादिपरमाणौ तन्नित्यमन्यत् सहेतुकम् ॥” इति भाषापरिच्छेदः ॥ उत्तरपदस्थरूपादिशब्दस्य उपमानवाचक- त्वम् । यथा, —
“स्युरुत्तरपदे प्रख्यः प्रकारः प्रतिमो निभः । भूतरूपोपमाः काशः सन्निभः प्रथितः परः ॥” इति हेमचन्द्रः ॥ अतिशयरूपस्य दोषो यथा, — उमोवाच । “रूपातिशयसम्पन्ना नानागुणसमन्विताः । किमर्थं दुःखिता जाताः कान्तसौख्यविवर्ज्जिताः ॥ ईश्वर उवाच । दमयन्ती तथा सीता रूपातिशयपारगा । दुःखिता तेन संजाता कान्तसौख्यविवर्ज्जिता ॥ अहल्या बन्धकी जाता कपिलस्य तु योषिता । रूपस्य तु प्रभावेण दासी जाता तिलोत्तमा ॥ तस्माद्रपञ्च नेच्छन्ति लक्षणज्ञास्तपोधनाः । अतिरूपेण स्वल्पायुः पुरुषो योषितोऽपि वा । अथवा सौख्यहीनस्तु जायते तु महातपे ॥” इति देवीपुराणे नन्दाकुण्डप्रवेशाध्यायः ॥ तद्बैदिकपर्य्यायः । निर्णिक् १ वव्रिः २ वर्पः ३ वपुः ४ अमतिः ५ अप्सः ६ प्सुः ७ अप्नः ८ पिष्टम् ९ पेशः १० कृशनम् ११ प्सरः १२ अर्ज्जुनम् १३ ताम्रम् १४ अरुषम् १५ शिल्पम् १६ । इति षोडशरूपनामानि । इति वेद- निघण्टौ ३ अध्यायः ॥
शब्दकल्पद्रुमः
रूप || त् क तत्कृतौ । इति कविकल्पद्रुमः ॥ (अदन्त चुरा०-पर०-सक०-सेट् ।)
तत्कृती रूपकरणम् । अरुरूपत् प्रतिमां शिल्पी । प्रति- माया रूपं करोतीत्यर्थः । निपूर्व्वः स्वरूप- कथने । अनुमानं निरूप्यत इत्यनुमानखण्डम् । इति दुर्गादासः ॥