वाचस्पत्यम्
रूपक || न० रूपयत्यत्र रूपिण्वुल् । १ अभिनयप्रदर्शके दृश्यकाव्यप्रभेदे, “रूपारोपात्तु रूपकम्” तद्दृश्यं काव्यं नटैरामादिस्वरूपारोपात् रूपकमित्युच्यते” सा० द० । तच्च दशविधम् “नाटकमथप्रकरणं भाणव्यायोगसमव- कारडिमाः । ईहामृगाङ्कवीथ्यः प्रसहनमिति रूपकाणि दश सा० द० । दशरूपकग्रन्थेऽस्य विवृतिः । रूपमस्त्यस्य कन् । २ मूर्त्ते त्रि० मेदि० रूप + स्वार्थे क । ३ शुक्लादि वर्णे, ४ आकारे च ५ अर्थालङ्कारभेदे, सा० द० श्रलङ्कार- शब्दे ४०२ पृ० दृश्यम् । ६ गुञ्जात्रयपरिमाणे “सञ्चाली प्रोच्यते गुञ्जा तास्तिस्रो रूपकं भवेत्” युक्तिक० ।
शब्दकल्पद्रुमः
रूपकं || क्ली (रूपयतीति । रूपि + ण्वुल् ।)
नाटकम् । (“तस्य रूपकसंज्ञाहेतुमाह । रूपा- रोपात्तु रूपकम् । रूपकस्य भेदानाह । नाटकमथ प्रकरणं भाणव्यायोगसमवकारडिमाः । ईहामृगाङ्कवीथ्यः प्रहसनमिति रूपकाणि दश ॥ किञ्च । नाटिका त्रोटकं गोष्ठी सट्टकं नाट्यरासकम् । प्रस्थानोल्लाप्यकाव्यानि प्रेङ्खणं रासकं तथा ॥ संलापकं श्रीगदितं शिल्पकञ्च विलासिका । दुर्मल्लिका प्रकरणी हल्लीशो भाणिकेति च ॥ अष्टादश प्राहुरुपरूपकाणि मनीषिणः । विना विशेष सर्व्वेषां लक्ष्म नाटकवन्मतम् ॥” इति साहित्यदर्पणे ६ परिच्छेदः ॥)
मूर्त्तम् । (यथा, कथासरित्सागरे । ५५ । ४३ । “आदिश्यताञ्च चित्रे किमालिखामीह रूप- कम् ॥”)
काव्यालङ्करणम । इति मेदिनी । के, १४८ ॥ शेषस्य लक्षणं यथा, —
“रूपकं रूपितारोपात् विषये निरपह्नवे । तत् परम्परितं साङ्गं निरङ्गमिति च त्रिधा ॥ यत्र कस्यचिदारोपः परारोपणकारणम् । तत् परम्परितं श्लिष्टाश्लिष्टशब्दनिबन्धनम् ॥ प्रत्येकं केवलं मालारूपञ्चेति चतुर्व्विधम् । अङ्गिनो यदि साङ्गस्य रूपणं साङ्गमेव तत् ॥ समस्तवस्तुविषयमेकदेशविवर्त्ति च । आरोप्याणामशेषाणां शाब्दत्वे प्रथमं मतम् ॥ यत्र कस्यचिदार्थत्वमेकदेशविवर्त्ति तत् । निरङ्गं केवलस्यैव रूपणं तदपि द्बिधा ॥ माला केवलरूपत्वात् तेनाष्टौ रूपके भिदाः ॥” इति साहित्यदर्पणे १० परिच्छेदः ॥ अपि च । “अभेदो भासते यस्मिन्नुपमानोपमेययोः । रूपकं कथ्यते सद्भिरलङ्कारोत्तमं यथा ॥ तन्वि युष्मन्मखाम्भोजं लोलालकमधुव्रतम् । न कस्य हरते चेतो लसद्दशनकेशरम् ॥ अस्त्यनेकप्रकारत्वं रूपकोपमयोरपि । संक्षेपेणोक्तमन्यत्तु सुधीभिरवधीयताम् ॥” इति काव्यचन्द्रिका ॥ संख्याविशेषः । यथा, —
“सञ्चाली प्रोच्यते गुञ्जा सा तिस्रो रूपकं भवेत् । रूपकैर्द्दशभिः प्रोक्तः कलञ्जो नाम नामतः ॥” इति युक्तिकल्पतरुः ॥ (उपमानम् । यथा, साहित्यदर्पणे १० परिच्छेदे समासोक्त्यलङ्कारे । “यत्र तु रूप्यरूपकयोः सादृश्यमस्फुटमिति ॥” पुं, मुद्रा । यथा, कथासरित्सागरे । ७८ । १३ । “अल्पे परिकरेऽप्येभिरियद्भिः स्वर्णरूपकैः । किमेष व्यसनं पुष्णात्यथ कञ्चन सद्ब्ययम् ॥” तथाच बृहत्संहितायाम् । ८१ । १२ । “गुञ्जात्रयस्य मूल्यं पञ्चाशद्रूपका गुणयुतस्य ॥”)