वाचस्पत्यम्
रूपाजीवा || स्त्री रूपं सौन्दर्य्यमाजीवो जीविका यस्याः । वेश्यायाम् अमरः ।
शब्दकल्पद्रुमः
रूपाजीवा || स्त्री (रूपेण सौन्दर्य्येण आजीव- तीति । आ + जीव् + अच् । टाप् ।)
वेश्या । इत्यमरः । २ । ६ । १९ ॥ (यथा, रामायणे । २ । ३६ । ३ । “रूपाजीवाश्च वादिन्यो बणिजश्च महाधनाः । शोभयन्तु कुमारस्य वाहिनीः सुप्रसारिताः ॥”)