वाचस्पत्यम्
रूप्याध्यक्ष || पु० रूप्येषु अध्यक्षः । कोषाध्यक्षे अमरः ।
शब्दकल्पद्रुमः
रूप्याध्यक्षः || पुं, (रूप्यस्य रूप्ये वा अध्यक्षः ।)
नैष्किकः । इत्यमरः ॥ रूप्यं रजतं तदेव निष्कं पूर्ब्बवत् ष्णिकः रजताध्यक्षो नैष्किकः । टङ्कक- पतिर्नैष्किक इत्यन्ये । पुरुषाश्वादिरूपं गठितं रजतं रूप्यं तस्याध्यक्षो नैष्किक इति केचित् । इति भरतः ॥