शब्दकल्पद्रुमः
रूवुकः || पुं, एरण्डः । इति शब्दमाला ॥ (यथास्य पर्य्यायः । “शुक्लएरण्ड आमण्डुश्चित्रो गन्धर्व्वहस्तकः । पञ्चाङ्गुलो वर्द्धमानो दीर्घदण्डोऽप्यदण्डकः ॥ वातारिस्तरुणश्चापि रूवुकश्च निगद्यते । रक्तोऽपरो रुवुकः स्यादुरुवुको रुवुस्तथा । व्याघ्रपुच्छश्च वातारिश्चञ्चुरुत्तानपादकः ॥” इति भापप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)