वाचस्पत्यम्
रे || अव्य० रा—के । नीचादेः सम्बोधने हेमच० ।
शब्दकल्पद्रुमः
रे || व्य, सम्बोधनविशेषः । यथा, —
“सम्बोधनेऽङ्ग भोः पाट् प्याट् हे है हं होऽरे रेऽपि च ।” इति हेमचन्द्रः । ६ । १७३ ॥ (यथा, कथासरित्सागरे । ३२ । १५५ । “तत्र मन्दमिवालोक्य साभिप्रायः समां नृपः । पप्रच्छ रे किमीदृक् त्वं सञ्जातः कथ्यता- मिति ॥”)