संस्कृत-शब्दकोशः

रेखागणित रेखाभूमि

रेखापुर

वाचस्पत्यम्

रेखापुर ||‍ न० भुवो मध्यसूत्रस्थः पुरम् । “राक्षसालयदेवौकः शैलयोर्मध्यसूत्रगाः । रोहितकमवन्ती च तथा सन्निहितं सरः” सू० सि० उक्ते पुरे । “राक्षसालयं लङ्का देवानां गृहरूपः पर्वतो मेरुरनयोर्मध्ये ऋजुसूत्रं तत्र स्थिता देशा रेखाख्याः लङ्कादक्षिणसूत्रस्थास्त्वनुपयुक्तास्तत्र मनुष्यागोचरत्वादिति नोक्ताः । ज्ञानार्थमुदाहरति । रोहीतकमिति । यथा रोहीतकं नमरमवन्त्युज्जयिनी- सन्निहितं सरः कुरुक्षेत्रम् । चकारस्तथेत्यव्ययपरः । तथान्यानि परस्परं सन्निहिततया ज्ञेयानि” रङ्ग० ।



Correction: