वाचस्पत्यम्
रेचक || न० रेचयति रिच—णिच्—ण्वुल् । १ कङ्गुष्ठे राजनि० २ यबक्षारे, पु० त्रिका० । ३ जयपाले, ४ तिलकवृक्षे पु० राजनि० । ५ पुरीषनिःसारके त्रि० । क्रीडार्थजलनिः- सारयन्त्रे न० (पिचकिरी) राजनि० । ५ कोष्ठ्यस्य वायो- र्निःसारके व्यापारभेदे कुम्भकशब्दे २११४ पृ० दृश्यम् ।
शब्दकल्पद्रुमः
रेचकं || क्ली (रेचयतीति । रिच् + णिच् + ण्वुल् ।)
कङ्कुष्टमृत्तिका । इति राजनिर्घण्टः ॥ (भेदके, त्रि ॥)
शब्दकल्पद्रुमः
रेचकः || पुं, (रेचयतीति । रिच् + णिच् + ण्वुल् ।)
यवक्षारः । इति त्रिकाण्डशेषः ॥ जयपाल- वृक्षः । इति राजनिर्घण्टः ॥ क्रीडार्थजल- निःक्षेपयन्त्रम् । पिच्कारी इति भाषा । यथा, “सिच्यमानोऽच्युतस्ताभिर्म्महिषीभिः स्म रेचकैः । प्रतिषिञ्चन् विचिक्रीडे यक्षीमिर्यक्षराडिव ॥” इति श्रीभागवते । १० । ९० । ९ ॥ (ध्यातृनासिकया प्राणायामाङ्गमुच्यमानवायुः । यथा, भागवते । ३ । २८ । ९ । “प्राणस्य शीधयेन्मार्गं पूरकुम्भकरेचकैः ॥” अस्यान्यद्विवरणं प्राणायामशब्दे द्रष्टव्यम् ॥)