शब्दकल्पद्रुमः
रेचनी || स्त्री (रिच्यतेऽनयेति । रिच् + ल्युट् + ङीप्)
काम्पिल्लः । इति शब्दरत्नावली ॥ कालाञ्जनी । दन्तीवृक्षः । इति राजनिर्घण्टः ॥ श्वेतत्रिवृता । इति मेदिनी ॥ (अस्याः पर्य्यायो यथा, —
“श्वेता त्रिवृत्ता भण्डी स्यात् त्रिवृता त्रिपुटापि च । सर्व्वानुभूतिः सरला निशोत्रा रेचनीति च ॥” इति भावप्रकाशे पूर्ब्बखण्डे प्रथमे भागे ॥ वटपत्री । तत्पर्य्यायो यथा, —
“वटपत्री तु कथिता मोहिनी रेचनी बुधैः ॥” इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥)