शब्दकल्पद्रुमः
रेतः || [स्] क्ली, (रीयते क्षरतीति । री य ङ क्षरणे + “सुरीभ्यां तुट् च ।” उणा० ४ । २०१ । इति असुन् तस्य तुट् च ।)
शुक्रम् । (यथा, —
“स्त्रीणां रजोमयं रेतो बीजाढ्यमिन्द्रियं नरे । तस्मात् संयोगतः पुत्त्रो जायते गर्भसम्भवः । प्रथमेऽहनि रेतश्च संयोगात् कलनञ्च यत् ॥” इति हारीते शारीरस्थाने प्रथमेऽध्याये ॥ “मातापित्रोर्बीजदोषादशुभैश्चावृतात्मनः । गर्भस्थस्य यदा दोषाः प्राप्य रेतोवहाः शिराः ॥ शोषयन्त्याशु तन्नाशाद्रेतश्चाप्युपर्हन्यते । तत्र सम्पूर्णसर्व्वाङ्गः स भवत्यपुमान् पुमान् । एते त्वसाध्या व्याख्याताः सन्निपातसमुच्छ्रयात् ॥” इति चरके चिकित्सास्थाने त्रिंशेऽध्याये ॥)
अप्सु रेतःपातनिषेधो यथा, —
“न वामहस्तेनोद्धृत्य पिबेद्बक्त्रेण वा जलम् । नोत्तरेदनुपस्पृश्य नाप्सु रेतः समुत्सृजेत् ॥” इति कौर्म्मे उपविभागे १५ अध्यायः ॥ पारदम् । इति मेदिनी । से, ३३ ॥ (जलम् । इति निघण्टुः । १ । १२ ॥ “वृंष्टि- लक्षणानां अपां देवानां रेतस्त्वाद्रेत उच्यते । तथाचोपनिषत् । देवानां रेतो वर्षमिति ।” इति तट्टीकायां देवराजयज्वा ॥ यथा, ऋग्वेदे । ६ । ७० । २ । “अस्मे रेतः सिञ्चतं यन्मनुर्हितम् ॥”)