वाचस्पत्यम्
रेभ || शब्दे भ्वा० आत्म० अक० सेट् । रेभते अरेभिष्ट । ऋदित् चङि न ह्रस्वः ।
शब्दकल्पद्रुमः
रेभ || ङ ऋ शब्दे । इति कविकल्पद्रुमः ॥ (भ्वा०- आत्म०-अक०-सेट् ।) ङ, रेभते रिरेभे । ऋ, अरिरेभत् । इति दुर्गादासः ॥