वाचस्पत्यम्
रेवन्त || पु० रेव—झच् । १ गुह्यकाधिपतौ २ सूर्य्यपुत्रभेदे च वह्निपु० ।
शब्दकल्पद्रुमः
रेवन्तः || पुं, सूर्य्यपुत्त्रविशेषः । स च गुह्यकाधि- पतिः । तस्योत्पत्तिर्यथा, —
“ततोऽसौ योगमास्थाय स्वां भार्य्यां वडवां रविः । ददश नियमस्थान्तामश्वरूपमथाकरोत् ॥ मैथुनायोपचक्राम सूर्य्योऽसौ च त्वरान्वितः । नेच्छन्ती तेन संयोगं परपुंसोऽभिशङ्कया ॥ संग्रहात् संमुखी तजो मुखनासिकया रवेः । देवौ यतः प्रजायेतामश्विनौ भिषजां वरौ । नासत्यौ द्बौ तृतीयश्च रेवन्तोऽश्वप्रवाहकः ॥” इति वह्निपुराणम् ॥ अपि च । “ततोऽश्वरूपधृक् भानुरुत्तरानगमत् कुरून् । ददृशे तत्र संज्ञान्तु वडवारूपधारिणीम् ॥ सा च दृष्ट्वा तमायान्तं परपुंसोऽभिशङ्कया । जगाम संमुखं तस्य पृष्ठरक्षणतत्परा ॥ ततश्च नासिकायोगे तयोस्तत्र समेतयोः । नासत्यदसौ तनयावश्ववक्त्राद्बिनिर्गतौ ॥ रेतसोऽन्ते च रेवन्तः खड्गी धन्वी तनुत्रधृक् । अश्वारूढः समुत्पन्नो वाणतूणसमन्वितः ॥ ततः स्वं रूपममलं दर्शयामास भानुमान् । तस्यै सा च समालोक्य स्वरूपं मुदमाददे ॥ स्वरूपधारिणीञ्चेमामानिनाय निजाश्रमम् । संज्ञां भार्य्यां प्रीतिमतीं भास्करो वारितस्करः ॥ ततः पूर्ब्बसुतो योऽस्याः सोऽभूद्वैवस्वतो मनुः । द्बितीयश्च यमः शापाद्धर्म्मदृष्टिरभूत् सुतः ॥ कृमयो मांसमादाय पादतस्ते महीतलम् । पतिष्यन्तीति शापान्तं तस्य चक्रे पिता स्वयम् ॥ धर्म्मदृष्टिर्यतश्चासौ समो मित्रे तथाहिते । ततो नियोगं तं यान्ये चकार तिमिरापहः ॥ यमुना च नदी जज्ञे कलिन्दान्तरवाहिनी । अश्विनौ देवभिषजौ कृतौ पित्रा महात्मना । गुह्यकाधिपतित्वे च रेवन्तो विनियोजितः ॥” इति मार्कण्डेयपुराणे वैवस्वतमन्वन्तरे ॥ * ॥
सप्तदिनकर्त्तव्यनीराजनविधौ रेवन्तस्य राज- कर्त्तृकपूजाविधिर्यथा, —
“सप्तमे हि तु रेवन्तं पूजयेत्तोरणान्तरे । सूर्य्यपुत्त्रं महाबाहुं द्विभुजं कवचोज्ज्वलम् ॥ ज्वलभ्तं शुक्लवस्त्रेण केशान् वितत्य वाससा । कशां वामकरे बिभ्रद्दक्षिणे तु करे पुनः । खड्गं न्यस्य महातीक्ष्णं सितसैन्धवसंस्थितम् ॥ एवंविधन्तु रेवन्तं प्रतिमायां घटेऽपि वा । सूर्य्यपूजाविधानेन पूजयेत्तोरणान्तरे ॥” इति कालिकापुराणे नीराजनविधिः ८६ अध्यायः ॥ * ॥
कोजागरपूर्णिमारात्रौ द्वारो- पान्ते तस्य पूजाविधिर्यथा, —
“द्वारोपान्ते सुदीप्तस्तु संपूज्यो हव्यवाहनः । यवाक्षतघृतोपेतैस्तण्डुलैश्च सुतर्पितः ॥ संपूजितव्यः पूर्णेन्दुः पयसा पायसेन च । स्कन्दः सभार्य्यो रुद्रश्च तथा नन्दीश्वरो मुनिः ॥ गोमद्भिः सुरभिः पूज्या छागवद्भिर्हुताशनः । उरभ्रवद्भिर्व्वरुणो गजवद्भिर्व्विनायकः । पूज्यः साश्वैश्च रेवन्तो यथाविभवविस्तरैः ॥” इति तिथ्यादितत्त्वम् ॥ (रेवन्तदर्शनेन लक्ष्मों प्रति नारायणस्य शाप- वृत्तान्तं देवीभागवते ६ स्कन्धे १७ अध्याये द्रष्टव्यम् ॥)