वाचस्पत्यम्
रेवा || स्त्री रेव—अच् । १ नर्मदाख्यनद्याम् अमरः । २ कामपत्न्यां ३ नीलीवृक्षे च मेदि० ४ दुर्गायां देवीपु० ।
शब्दकल्पद्रुमः
रेवा || स्त्री (रेवते उत्प्लुत्य गच्छतीति । रेव + अच् । टाप् ।)
नर्म्मदा नदी । इत्यमरः । १ । १० । ३२ ॥ (यथा, मेवदूते । २० । “रेवां द्रक्ष्यस्युपलविषमे बिन्ध्यपादे विशीर्णाम् ॥”)
अस्यां शिवलिङ्गोत्पत्तिर्यथा, —
“रेवया च कृतं पूर्ब्बं तपः शिवसुतुष्टिदम् । मम त्वत्सदृशः पुत्त्रो भूयादिति विधो तथा ॥ अहं कस्यापि न सुतः किं करिष्यामि चिन्त- यन् । रेवायास्तु वरो देयस्त्ववश्यं मृगलाञ्छन ॥ निश्चित्यैवं तदा प्रोक्तं प्रसन्नेनान्तरात्मना । लिङ्गरूपेण ते देवि ! गजाननपुरस्कृतः । गर्भे तव वसिष्यामि पुत्त्रो भूत्वा शिवप्रिये ! ॥ मम त्वमपरा मूर्त्तिः ख्याता जलमयी शिवा । शिवशक्तिविभेदेन चावामेकत्र संस्थितौ ॥ एवं दत्तवरा रेवा मत्सान्निध्यमिहागता । रेवाखण्डमिति ख्यातं ततः प्रभृति गोपते ॥” इति वाराहे सोमेश्वरादिलिङ्गमहिमाध्यायः ॥ रतिः । सा च कामपत्नी । नीलीवृक्षः । इति मेदिनी । वे, २१ ॥ दुर्गा । यथा, —
“रेवा तु नर्म्मदा देवी नदी वा रेवती मता । अतिखण्डनबन्धा वा लोके देवी प्रकीर्त्तिता ॥” इति देवीपुराणे ४५ अध्यायः ॥