वाचस्पत्यम्
रै || पु० रा—डै । १ धने २ स्वर्णे अमरः । ३ शब्दे शब्दर० अस्य हलादौ सुपि आत्त्वम् राभ्यामित्यादि ।
वाचस्पत्यम्
रै || शब्दे भ्वा० पर० अक० अनिट् । रायति अरासात् ।
शब्दकल्पद्रुमः
राः || [ऐ] पुं, (रा दाने + “राते र्डैः ।” उणा० २ । ६६ । इति डैः ।)
धनम् । (यथा, भाग- वते । ३ । २५ । ३८ । “आत्मानमनु ये चेह ये रायः पशवो गृहाः ॥”)
स्वर्णम् । इत्यमरः ॥ शब्दः । इति शब्दरत्ना- वली ॥ (स्त्री, श्रीः । यथा, ऋग्वेदे । १० । १११ । ७ । “स चन्तयदुषसः सूर्य्येण चित्रामस्य केतवो रामविन्दन् ॥”)
“चित्रां नानावर्णां रां रायं श्रियमविन्दन् अल- भन्त ।” इति तद्भाष्ये सायणः ॥)
शब्दकल्पद्रुमः
रै || शब्दे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०- अक०-अनिट् ।)
रेफादिः । रावति । इति दुर्गादासः ॥