वाचस्पत्यम्
रोक || न० रु—कन् तस्य नेत्त्वम् । १ छिद्रे अमरः “तन्मे रोकं च शोकञ्चेति” ति० त० । २ नौकायाम् ३ चले त्रि० मेदि० रुच—घञ् नि० कुत्वम् । क्रयकाले मूल्यदानेन क्रयात्मके ४ क्रयभेदे ५ दीप्तौ च पु० मेदि० ।
शब्दकल्पद्रुमः
रोकं || क्ली (रोचतेऽत्रेति । रुच् + घञ् । न्यङ्क्ना- दित्वात् कुत्वम् ।)
छिद्रम् । इत्यमरः । १ । ८ । २ ॥ नौका । चलम् । इति मेदिनी ॥ के, ३२ ॥
शब्दकल्पद्रुमः
रोकः || पुं, (रुच् + घञ् ।)
क्रयभेदः । दीप्तिः । इति मेदिनी । के, ३१ ॥ (यथा, ऋग्वेदे । ३ । ६ । ७ । “दिवश्चिदाते रुचयन्त रोकाः ।” “ते रोकास्त्वदीया दीप्तयः ।” इति तद्भाष्ये सायणः ॥”)