वाचस्पत्यम्
रोग || पु० रुज—घञ् । १ धातुवैषम्यजाते व्याधौ राजनि० २ कु- ष्ठौषधे च (कुड) मेदि० ।
शब्दकल्पद्रुमः
रोगः || पुं, (रुज्यतेऽनेनेति । रोजनमिति वा । रुज + घञ् । यद्वा, रुजतीति । रुज् + “पद- रुजविशस्पृशो घञ् ।” ३ । ३ । १६ । इति कर्त्तरि घञ् ।)
कुष्ठौषधम् । इति मेदिनी । गे, २३ ॥ देहभङ्गकारकः । तत्पर्य्यायः । रुक् २ रुजा ३ उपतापः ४ व्याधिः ५ गदः ६ आमयः ७ । इत्यमरः । २ । ६ । ५१ ॥ अपाटवः ८ आमः ९ आतङ्कः १० भयः ११ उपघातः १२ भङ्गः १३ अर्त्तिः १४ तमोविकारः १५ ग्नानिः १६ क्षयः १७ अनार्ज्जवः १८ मृत्युभृत्यः १९ । इति राज- निर्घण्टः ॥ अमः २० । इति जटाधरः ॥ मान्द्यम् २१ आकल्पम् २२ । इति हेमचन्द्रः ॥ * ॥
अस्य निदानादिर्यथा, — धन्वन्तरिरुवाच । “सर्व्वरोगनिदानञ्च वक्ष्ये सुश्रुत तत्त्वतः । आत्रेयाद्यैर्मुनिवरैर्यथापूर्व्वमुदीरितम् ॥ रोगः पाप्मा ज्वरो व्याधिर्विकारो दुष्टमामयः । यक्ष्मातङ्कगदावाधाः शब्दाः पर्य्यायवादिनः ॥ निदानं पूर्व्वरूपाणि रूपाण्युपशयस्तथा । संप्राप्तिश्चेति विज्ञानं रोगाणां पञ्चधा स्मृतम् ॥ निमित्तहेत्वायतनप्रत्ययोत्थानकारणैः । निदानमाहुः पर्य्यायैः प्राग्रूपं येन लक्ष्यते । उत्पित्सुरामयो दोषविशेषेणानधिष्ठितः ॥ लिङ्गमव्यक्तमल्पत्वात् व्याधीनां तद्यथातथम् । तदेव व्यक्ततां यातं रूपमित्यभिधीयते ॥ संस्थानं व्यञ्जनं लिङ्गं लक्षणं चिह्नमाकृतिः । हेतुव्याधिविप्रर्य्यस्तं विपर्य्यस्तार्थकारिणाम् ॥ औषधान्नविहाराणां उपयोगं सुखावहम् । विद्यादुपशयं व्याधेः स हि सात्म्यमिति स्मृतः ॥ विपरीतोऽनुपशयो व्याधिसात्म्याभिसंज्ञितः । यथा दुष्टेन दोषेण तथा चात्मविसर्पता ॥ निवृत्तिरामयस्यासौ संप्राप्तिर्जातिरागतिः । संख्याविकल्पप्राधान्यबलकालविशेषतः ॥ स भिद्यते यथात्रैव संख्यन्तेऽष्टौ ज्वरा इति । दोषाणां समवेतानां विकल्पांशांशकल्पना ॥ स्वातन्त्र्यपारतन्त्र्याभ्यां व्याधेः प्राधान्यमादिशेत् । हेत्वादिकार्त्स्न्यावयवैर्बलाबलविशेषणम् ॥ नक्तं दिनर्त्तुभुक्तांशैर्व्याधिकालो यथा मलम् । इति प्रोक्तो निदानार्थः स व्यासेनोपदेक्ष्यते । सर्व्वेषामेव रोगाणां निदानं कुपिता मलाः ॥ तत्प्रकोपस्य तु प्रोक्तं विविधाहितसेवनम् । अहितस्त्रिविधो योगस्त्रयाणां प्रागुदाहृतः ॥ तिक्तोषणकषायाम्लरूक्षाप्रमितभोजनैः । धावनोदीरणनिशाजागरात्युच्चभाषणैः ॥ क्रियाभियोगभीशोकचिन्ताव्यायाममैथुनैः । ग्रीष्माहोरात्रभुक्तान्ते प्रकुप्यति समीरणः ॥ पित्तं कट्वम्लतीक्ष्णोष्णकटुक्रोधविदाहिभिः । शरन्मध्याह्नरात्र्यर्द्धविदाहसमयेषु च ॥ स्वाद्वम्ललवणस्निग्धगुर्व्वभिष्यन्दिशीतलैः । आस्यास्वप्नसुखाजीवदिवास्वप्नादिवृंहणैः ॥ प्रच्छर्दनाद्ययोगेन भुक्तमात्रवसन्तयोः । पूर्व्वाह्णे पूर्व्वरात्रे च श्लेष्मा वक्ष्यामि शङ्करान् ॥ मिश्रीभावात् समस्तानां सन्निपातस्तथा पुनः । सङ्कीर्णाजीर्णविषमविरुद्धाध्यशनादिभिः ॥ व्यापन्नमद्यपानीयशुष्कशाकाममूलकैः । पिण्याकमृत्यवसरापूतिशुष्ककृषामिषैः ॥ दोषत्रयकरैस्तैस्तैस्तथान्नपरिवर्त्ततः । ऋतोर्दुष्टात् पुरोवातात् विग्रहावेशविप्लवात् ॥ दुष्टामान्नैरतिश्लेष्मग्रहैर्जन्मर्क्षपीडनात् । मिथ्यायोगाच्च विविधात् पापानाञ्च निषेव- वणात् ॥ स्त्रीणां प्रसववैषम्यात्तथा मिथ्योपचारतः । प्रतिरोगमिति क्रुद्धा रोगविध्यनुगामिनः । रसायनीं प्रपद्याशु दोषा देहे विकुर्व्वते ॥” इति गारुडे सर्व्वरोगनिदानं १५१ अध्यायः ॥ रोगविशेषाणां औषधानि गारुडे १८९ । १९० । १९१ । १९२ । १९३ । १९४ । १९५ । १९६ । १९७ । १९८ । १९९ अध्यायेषु द्रष्टव्यानि ॥ सर्व्वरोगहरवैष्णवकवचञ्च तत्रैव २०० अध्याये द्रष्टव्यम् ॥ * ॥
अपि च । “जनकः सर्व्वरोगाणां दुर्व्वारो दारुणो ज्वरः । शिवभक्तश्च योगी च स एव विकृताकृतिः ॥ भीमस्त्रिपादस्त्रिशिराः षड्भुजो नवलोचनः । भस्मप्रहरणो रौद्रः कालान्तकयमोपमः ॥ मन्दाग्निस्तस्य जनको मन्दाग्नेर्जनकास्त्रयः । पित्तश्लेष्मसमीराश्च प्राणिनां दुःखदायकाः ॥ वायुजः पित्तजश्चैव श्लेष्मजश्च तथैव च । ज्वरभेदाश्च त्रिविधाश्चतुर्थश्च त्रिदोषजः ॥ पाण्डुकः कामलः कुष्ठः शोथः प्लीहा च शूलकः । ज्वरातिसारग्रहणीकाशव्रणहलीमकाः ॥ मूत्रकृच्छ्रश्च गुल्मश्च रक्तदोषविकारकः । आरिशो मेहजः कुब्जो गोदश्च गलगण्डकः ॥ भ्रमरी सन्निपातश्च विसूची दारुणी सति । एषां भेदप्रभेदेन चतुःषष्टिरुजः स्मृताः ॥ मृत्युकन्यासुताश्चेते जरा तस्याश्च कन्यका । जरा च भ्रातृभिः सार्द्धं शश्वद्भ्रमति भूतलम् ॥ एते चोपायवेत्तारं न गच्छन्ति च संयुतम् । पलायन्ते च तं दृष्ट्वा वैनतेयमिवोरगाः ॥ * ॥
चक्षुर्जलञ्च व्यायामः पादाधस्तैलसेवनम् । कर्णतैलं मूर्द्ध्नितैलं जराव्याधिविनाशकम् ॥ वसन्ते भ्रमणं वह्निसेवास्वप्नं करोति यः । बालाञ्च सेवते काले जरा तं नोपगच्छति ॥ खातशीतोदकस्नायी सेवते चन्दनद्रवम् । नोपयाति जरा तञ्च निदाघेऽनिलसेविनम् ॥ प्रावृडुष्णोदकस्नायी घनतोयं न सेवते । समये च समाहारी जरा तं नोपगच्छति ॥ शरद्रौद्रं न गृह्णाति भ्रमणं तत्र वर्जयेत् । खातस्नायी समाहारी जरा तं नोपतिष्ठति ॥ खातस्नायी च हेमन्ते काले वह्निं निषेवते । भुङ्क्ते नवान्नमुष्णञ्च जरा तं नोपगच्छति ॥ शिशिरेऽंशुकवह्निञ्च नवोष्णान्नञ्च सेवते । य एवोष्णोदकस्नायी जरा तं नोपगच्छति ॥ सद्योमांसं नवान्नञ्च बाला स्त्री क्षीरभोजनम् । घृतञ्च सेवते यो हि जरा तं नोपगच्छति ॥ भुङ्क्ते सदन्न क्षुत्काले तृष्णायां पीयते जलम् । नित्यं भुङ्क्ते च ताम्बूलं जरा तं नोपग्च्छति ॥ दधि हैयङ्गवीनञ्च नवनीतं तथा शुभम् । नित्यं भुङ्क्ते संयमी यो जरा तं नैव गच्छति ॥ शुष्कमांसं स्त्रियो वृद्धा बालार्कं तरुणं दधि । संसेवन्तं जरा याति प्रहृष्टा भ्रातृभिः सह ॥ रात्रौ ये दधि सेवन्ते पुंश्चलीञ्च रजस्वलाम् । तमुपैति जरा हृष्टा भ्रातृभिः सह सुन्दरि ! ॥ रजस्वला च कुलटा चावीरा जारदूतिका । शूद्रयाजकपत्नी या ऋतुहीना च या सति ! ॥ यो हि तासामन्नभोजी ब्रह्महत्यां लभेत्तु सः । तेन पापेन सार्द्धं सा जरा तमुपगच्छति ॥ पापानां व्याधिभिः सार्द्धं मित्रता सन्ततं ध्रुवम् । पापं व्याधिजराबीजं विघ्नबीजञ्च निश्चितम् ॥ पापेन जायते व्याधिः पापेन जायते जरा । पापेन जायते दैन्यं दुःखं शोकं भयं कलिः ॥ तस्मात् पापं महावैरं दोषबीजममङ्गलम् । भारते सन्ततं सन्तो नाचरन्ति भयातुराः ॥ स्वधर्म्माचारयुक्तञ्च दीक्षितं हरिसेवकम् । गुरुदेवातिथीनाञ्च भक्तं सक्तं तपःसु च ॥ व्रतोपवासयुक्तञ्च सदा तीर्थनिषेविणम् । पापा द्रवन्ति तं दृष्ट्वा वैनतेयमिवोरगाः ॥ एतान् जरा न सेवेत व्याधिसङ्घश्च दुर्ज्जयः । सर्व्वं बोध्यमसमये काले सर्व्वं ग्रहीष्यति ॥ * ॥
ज्वरश्च सर्व्वरोगाणां जनकः कथितः सति । पित्तश्लेष्मसमीराश्च ज्वरस्य जनकास्त्रयः ॥ एते यथा सञ्चरन्ति स्वयं यान्ति च देहिषु । तमेव विविधोपायं साध्वि मत्तो निशामय ॥ क्षुधि जाज्वल्यमानायामाहाराभाव एव च । प्राणिनां जायते पित्तं चक्रे च मणिपूरके ॥ तालं विल्वफलं भुक्त्वा जलपानञ्च तत्क्षणम् । तदेव तु भवेत् पित्तं सद्यःप्राणहरं परम् ॥ तप्तोदकञ्च शरदि भाद्रे तिक्तं विशेषतः । दैवग्रस्तश्च यो भुङ्क्ते पित्तं तस्य प्रजायते ॥ सशर्करञ्च धन्याकं पिष्टं शीतोदकान्वितम् । चणकं सर्व्वगव्यञ्च दधितक्रविवर्ज्जितम् ॥ विल्वतालफलं पक्वं सर्व्वमक्षारमेव च ॥ आर्द्रकं मुद्गयूषञ्च तिलपिष्टं सशर्करम् ॥” अक्षारस्थाने ऐक्षवमिति च पाठः । “पित्तक्षयकरं सद्यो वलपुष्टिप्रदं परम् । पित्तनाशञ्च तद्बीजमुक्तमन्यं निबोध मे ॥ भोजनानन्तरं स्नानं जलपानं विना तृषा । तिलतैलं स्निग्धतैलं स्निग्धमामलकीद्रवम् ॥ पर्य्युषितान्नं तक्रञ्च पक्वरम्भाफलं दधि । छायाम्बुशर्करातोयं सुस्निग्धस्थलसेवनम् ॥ नारिकेलोदकं रूक्षस्नानं पर्य्युषितं जलम् । तरुमुञ्जपक्वफलं सुपक्वकर्कटीफलम् ॥ खातस्नानञ्च तर्षासु मूलकं श्लेष्मकारणम् । ब्रह्मरन्ध्रे च तज्जन्म महद्वीर्य्यविनाशनम् ॥ वह्निस्वेदं भृष्टिभङ्गं पक्वतैलं विशोषकम् । भ्रमणं शुष्कभक्षञ्च शुष्कपक्वहरीतकी ॥ पिण्डारकमपक्वञ्च रम्भाफलमपक्वकम् । वेशवारसिन्धुवारमनाहारमपानकम् ॥ सघृतं रोचनाचूर्णं सघृतं शुष्कशर्करम् । मरीचं पिप्पलीशुष्कमार्द्रकं जीरकं मधु ॥ द्रव्याण्येतानि गन्धर्व्वि सद्यः श्लेष्महराणि च । बलपुष्टिकराण्येव वायुबीजं निशामय ॥ भीजनानन्तरं सद्यो गमनं धावनं तथा । छेदनं वह्नितापश्च शश्वद्भ्रमणमैथुनम् ॥ वृद्धस्त्रीगमनञ्चैव मनःसन्ताप एव च । अतिरूक्षमनाहारं युद्धं कलहमेव च ॥ कटुवाक्यं भयं शोकः केवलं वायुकारणम् । आज्ञाख्यचक्रे तज्जन्म निशामय तदौषधम् ॥ पक्वरम्भाफलञ्चैव सबीजं सर्करोदकम् । नारिकेलोदकञ्चैव सद्यस्तक्रं सुमिष्टकम् ॥ माहिषं दधि मिष्टञ्च केवलं वा सशर्करम् । सद्यःपर्य्युषितान्नञ्च सौवीरं शीतलोदकम् ॥ पक्वतैलविशेषश्च तिलतैलञ्च केवलम् । लाङ्गलीतालखर्ज्जूरमुस्तमामलकीद्रवम् ॥ शीतलोष्णोदकस्नानं सुस्निग्धचन्दनद्रवम् । स्निग्धपद्मपत्रतल्पं सुस्निग्धव्यजनानिलः ॥ एतत्ते कथितं वत्से ! सद्यो वातप्रणाशनम् । * । वायवस्त्रिविधाः पुंसां क्लेशसन्तापकामजाः ॥ व्याधिसंघश्च कथितस्तन्त्राणि विविधानि च । तानि व्याधिप्रणाशाय कृताति सद्भिरेव च ॥ तन्त्राण्येतानि सर्व्वाणि व्याधिक्षयकराणि च । रसायनादयो येषु चोपायश्च सुदुर्ल्लभः ॥ न शक्तः कथितुं साध्वि याथार्थ्यं वत्सरेण च । तेषाञ्च सर्व्वतन्त्राणां कृतार्थानां विचक्षणैः ॥” इति ब्रह्मवैवर्त्ते ब्रह्मखण्डे १६ अध्यायः ॥ अथ व्याधिलक्षणम् । तत्र वाग्भटः । “रोगस्तु दोषवैषम्यं दोषशाम्यमरोगता । रोगा दुःखस्य दातारो ज्वरप्रमृतयो हि ते ॥ ते च स्वाभाविकाः केचित् केचिदागन्तवः स्मृताः । मानसाः केचिदाख्याताः कथिताः केऽपि कायिकाः ॥” तत्र स्वाभाविकाः शरीरस्वभावादेव जाताः । क्षुत्पिपासासुषुप्साजागरामृत्युप्रभृतयः ॥ अथवा स्वस्य भावादुत्पत्तेर्जाताः स्वाभाविकाः सहजा इति यावत् । ते च जन्मान्धादयः । आग- न्तवोऽभिघातादिजनिताः । अथवा जन्मोत्तर- भाविनः । मानसाः कामक्रोधलोभमोहभया- भिमानदैन्यपैशुन्यविषादेर्षासूयामात्सर्य्यप्रभृ- तयः । अथवा उन्मादापस्मारमूर्च्छाभ्रमतमः- सन्न्यासप्रभृतयः । कायिकाः पाण्डुरोगप्रभृतयः ॥ “कर्म्मजाः कथिताः केचिद्दोषजाः सन्ति चापरे । कर्म्मदोषोद्भवाश्चान्ये व्याधयस्त्रिविधाः स्मृताः ॥” तत्र कर्म्मजा व्याधयः । यत् प्राक्तनं दुष्कर्म्म- प्रबलं व्याधिरूपं केवलं भोगनाश्यं प्रायश्चित्त- नाश्यं वा ततो जाताः न तु दुष्टवातादिदोषेण जनिताः । तथा । “यथाशास्त्रन्तु निर्णीता यथाव्याधि चिकित्- सिताः । न शमं यान्ति ये रोगास्ते ज्ञेयाः कर्म्मजा बुधैः ॥” दोषजाः मिथ्याहारविहारप्रकुपितवातपित्त- कफजाः ॥ * ॥
ननु मिथ्याहारविहारिणामपि प्राक्तनसुकृतेन नैरुज्यं दृश्यत एव ततो दोषजे- ष्वपि प्राक्तनकर्म्मैव कारणं तत् कथं दोषजा इति । उच्यते । दोषजेष्वपि वस्तुत आदिकारणं दुष्कर्म्म वर्त्तत एव किन्तु तत्र मिथ्याहार- विहारभूषिता दोषा हेतवो दृश्यत इति दोषजा इत्युच्यत इति समाधिः ॥ * ॥
कर्म्मदोषोद्भवाः । “स्वल्पदोषो गरीयांसस्ते ज्ञेयाः कर्म्मदोषजाः ।” अत्र कारणं दुष्कर्म्मप्रबलं यतो दोषाल्पत्वेऽपि व्याधेर्गरीयस्त्वं तत्कर्म्मक्षयादेव क्षीणं भवति । दोषास्तु स्वल्पा अपि निदानत्वेनोक्ता दृश्यन्त एवेति । दोषाणां कारणन्तु मन्यत इति कर्म्म- दोषोद्भवाः । “कर्म्मक्षयात् कर्म्मकृता दोषजाः स्वस्वभेषजैः । कर्म्मदोषोद्भवा यान्ति कर्म्मदोषक्षयात् क्षयम् ॥” दोषजाः स्वस्वभेषजैरिति दोषजेष्वादिकारणं दुष्कर्म्म तद्भेषजार्थद्रव्यक्षयादिजनितदुःखभोगेन कटुतिक्तकषायाद्यहृद्यभक्षणादिजनितदुःखभो- गेन च क्षयं याति । शेषादृष्टहेतवो दोषास्ते स्वस्वभेषजैः क्षयं यान्तीत्यर्थः । “साध्या याप्या असाध्याश्च व्याधयस्त्रिविधाः स्मृताः । सुखसाध्यः कष्टसाध्यो द्बिविधः साध्य उच्यते ॥” याप्यलक्षणमाह । “यापनीयन्तु तं विद्यात् क्रियां धारयते हि तम् । क्रियायान्तु निवृत्तायां सद्यो यश्च विनश्यति ॥ प्राप्ता क्रिया धारयति सुखिनं प्राप्यमातुरम् । प्रप्रतिष्यदिवागारं स्तम्भो यत्नेन योजितः ॥ साध्या याप्यत्वमायान्ति याप्याश्चासाध्यातां तथा । घ्नन्ति प्राणानसाध्यास्तु नराणामक्रियावताम् ॥” अक्रियावतां चिकित्सारहितानाम् ॥ * ॥
अथोपद्रवलक्षणम् । “रोगारम्भकदोषस्य प्रकोपादुपजायते । योऽन्यो विकारः स बुधैरुपद्रव इहोदितः ॥” अथारिष्टस्य लक्षणमाह । “रोगिणो मरणं यस्मादवश्यम्भावि लक्ष्यते । तल्लक्षणमरिष्टं स्याद्रिष्टञ्चापि तदुच्यते ॥” अथ रोगस्य चिकित्सालक्षणमाह । “या क्रिया व्याधिहरणी सा चिकित्सा निग- द्यते । दोषधातुमलानां या साम्यकृत् सैव रोगहृत् ॥” क्रियात्र कर्म्म । व्याधिर्ह्नियतेऽनयेति व्याधि- हरणी । करणाधिकरणयोश्चेति सूत्रेण करणार्थे ल्युट् । तथा च । “याभिः क्रियाभिर्जायन्ते शरीरे धातवः समाः । सा चिकित्सा विकाराणां कर्म्म तद्भिषजां मतम् ॥ या ह्युदीर्णं शमयति नान्यं व्याधिं करोति च । सा क्रिया न तु या व्याधिं हरत्यन्यमुदीरयेत् ॥” क्रियात्र चिकित्सा । तथा चामरसिंहः । “आरम्भो निष्कृतिः शिक्षा पूजनं संप्रधारणम् । उपायः कर्म्म चेष्टा च चिकित्सा च नव क्रियाः ॥” इति ॥ * ॥
अथ चिकित्साविध्युपदेशः । “जातमात्रश्चिकित्सः स्यान्नोपेक्ष्योऽल्पतया गदः । वह्निशत्रुविषैस्तुल्यः स्वल्पोऽपि विकरोत्यसौ ॥ रोगमादौ परीक्षेत ततोऽनन्तरमौषधम् । ततः कर्म्म भिषक् पश्चात् ज्ञानपूर्ब्बं समाचरेत् ॥” अयमर्थः । भिषक् आदौ रोगं परीक्षेत विचा- रयेत् । ततोऽनन्तरं औषधं विचारयेत् । ततः पश्चात् रोगौषधविचारानन्तरं ज्ञानपूर्ब्बं साव- धानो न तु अवज्ञया कर्म्म चिकित्सामौषध- दानादिरूपं समाचरेदित्यर्थः ॥ * ॥
रोगाज्ञाने चिकित्साकरणे दोषमाह । “यस्तु रोगमविज्ञाय कर्म्माण्यारभते भिषक् । अपौषधविधानज्ञस्तस्य सिद्धिर्यदृच्छया ॥” यदृच्छया स्वेरितया सिद्धिर्भवति नापि भवती- त्यर्थः । अन्यच्च । “औषधं केवलं कर्त्तुं यो जानाति न चामयम् । वैद्यकर्म्म स चेत् कुय्याद्वधमर्हति राजतः ॥” * ॥
रोगज्ञाने भेषजाज्ञाने दोषमाह । “यस्तु केवलरोगज्ञो भेषजेष्वविचक्षणः । तं वैद्यं प्राप्य रोगी स्याद्यथा नौर्न्नाविकं विना ॥” नाविकं कर्णधारं विना यथा नौः सङ्कटे पतति तथा रोगीत्यर्थः । अन्यच्च । “यस्तु केवलशास्त्रज्ञः क्रियास्वकुशलो भिषक् । स मुह्यत्यातुरं प्राप्य भीरुः शस्त्रीव चाहवम् ॥” रोगौषधयोर्ज्ञाने गुणमाह । “यस्तु रोगविशेषज्ञः सर्व्वभैषज्यकोविदः । देशकालविभागज्ञस्तस्य सिद्धिर्न संशयः ॥ आदावन्ते रुजां ज्ञाने प्रयतेत चिकित्सकः । भेषजानां विधानेऽथ ततः कुर्य्याच्चिकित्सितम् ॥” चिकित्सितमित्यत्र भावे क्तः । इति भाव- प्रकाशे पूर्ब्बखण्डः ॥ * ॥
अथ येन रोगाणां ज्ञानं स्यात्तत्तदाह । “हेतुस्तदनु संप्राप्तिः पूर्ब्बरूपञ्च लक्षणम् । तथैवोपशयः पञ्च रोगविज्ञानहेतवः ॥” तत्र हेतोर्लक्षणमाह “यत्तु न स्याद्बिना येन तस्य तद्धेतुरुच्यते । शास्त्रे संव्यवहाराय तत्पर्य्यायान् प्रवक्ष्महे ॥ निदानं कारणं हेतुर्न्निमित्तञ्च निबन्धनम् । मूलमायतनं तत्तु प्रत्ययोऽपि निगद्यते ॥” तत्र हेतुर्व्याधीनां ज्ञानाय हेतुर्यथा । वर्षा- रूक्षश्रमहिमानशनातिमैथुनशोकचिन्ताभ्रया- दयो वातप्रकोपहेतवो वातजान् व्याधीन् बोध- यन्ति । शरत्कट्वम्लोष्णतीक्ष्णक्रोधतृषाक्षुधाभि- घातादयः पित्तप्रकोपहेतवः पित्तजान् व्याधीन् बोधयन्ति । वसन्तमधुरस्निग्धशीतादयः कफ- प्रकोपहेतवः कफजान् व्याधीन् बोधयन्ति ॥ * ॥
अथ संप्राप्तेर्लक्षणमाह “यथा दुष्टेन दोषेण यथा चानुविसर्पता । उत्पत्तिर्यामयस्यासौ संप्राप्तिर्ज्जातिरागतिः ॥” यथा दुष्टेन दोषेण यथा कारणभेदेन दुष्टेन दोषेण । यथा चानुविसर्पता अनेकधा दोषाणां विसर्पणमूर्द्ध्वाधस्तिर्य्यगादिगतिभेदेन । तथा च विसर्पता आमयस्य या उत्पत्तिः असौ संप्राप्तिः । शास्त्रे व्यवहाराय संप्राप्तेः पर्य्याया- वाह जातिरागतिरिति । संप्राप्तेरौपाधिक- भेदानाह । “संख्याविकल्पप्राधान्यबलकालविशेषतः । सा भिद्यते यथात्रेव वक्ष्यन्तेऽष्टौ ज्वरा इति ॥” संख्यादिरूपा ये विशेषास्तेभ्यः सा संप्राप्ति- र्भिद्यते भेदवती क्रियते इत्यर्थः । तत्र संख्यां विवृणोति । यथा ज्वरोऽष्टधा अतीसारः षड्- विध इत्यादि । विकल्पं विवृणोति । दोषाणां समवेतानां विकल्पोऽंशांशकल्पना । सम- वेतानां समुदितानां दोषाणां अंशांशकल्पना हीनमध्याधिकभेदैर्भागकल्पना विकल्पः ॥ * ॥
प्राधान्यं विवृणोति । “स्वातन्त्र्यपारतन्त्र्याभ्यां व्याधेः प्राधान्यमादि- शेत् । व्याधेः स्वातन्त्र्येण प्राधान्यं पारतन्त्र्येणाप्राधा- न्यञ्च वदेदित्यर्थः । यथा स्वतन्त्रस्य ज्वरस्य प्राधान्यं ज्वराधीनानां श्वासादीनामप्राधा- न्यम् ॥ * ॥
बलं विवृणोति । “हेत्वादिकार्त्स्न्यावयवैर्ब्बलाबलविशेषणम् ।” अत्रापि व्याधेरित्यनुवर्त्तते । हेत्वादेः हेतुपूर्ब्ब- रूपाणां कार्त्स्न्येन साकल्येन । अवयवैः एक- देशेन । व्याधेर्ब्बलाबलयोर्व्विशेषणं विशेष- बोधः ॥ * ॥
कालं विवृणोति । “नक्तं दिनर्त्तुभुक्तांशैर्व्याधिकालो यथाबलम् ।” नक्तमत्राव्ययं रात्रिवाचकम् । एतेनैतदुक्तं यस्मिन्नक्तादेरंशे यस्य दोषस्य प्रकोप उक्तोऽस्ति सोऽंशस्तद्दोषजस्य व्याधेः काल इत्यर्थः । नक्तादेरंशेषु वातादिप्रकोप उक्तो वाग्भटेन । “ते व्यापिगोऽपि हृन्नाभ्योरधोमध्योर्द्ध्वसंश्रयाः । वयोऽहोरात्रिभुक्तानामन्तमध्यादिगाः क्रमात् ॥” इति ॥ ते वातपित्तकफाः । ऋतुषु वातादिकोपो यथा, “वर्षासु शिशिरे वायुः पित्तं शरदि उष्मके । वसन्ते तु कफः कुप्येदेषा प्रकृतिरार्त्तवी ॥” * ॥
संप्राप्तिर्व्याधीनां ज्ञानाय हेतुर्यथा । मिथ्या- हारविहारकुपितवाताद्यामाशयगमनरसदूषण- कोष्ठाग्निर्व्वहिर्निरसनरूपं ज्वरोत्पत्तिप्रकारं बोधयति तथा व्याधीनां संख्यादोषांशांश- कल्पनाप्राधान्यबलकालांश्च बोधयति । तेषु ज्ञानेषु चिकित्साविशेषः स्यात् ॥ * ॥
अथ पूर्ब्बरूपस्य लक्षणमाह । “पूर्व्वरूपन्तु तद्येन विद्याद्भाविनमामयम् । सामान्यञ्च विशिष्टञ्च द्विविधं तदुदाहृतम् ॥ सामान्यं तत्र दोषाणां विशेषैरनधिष्ठितम् । विशिष्टमीषद्ब्यक्तं स्यात् विशेषैश्च समन्वितम् ॥” दोषाणां विशेषाः जृम्भातिशयनेत्रदाहाग्नि- मान्द्यादयः । तत्र पूर्ब्बरूपं व्याधीनां ज्ञानाय हेतुर्यथा । श्रमादयो भाविनं ज्वरं बोधयन्ति । अथ च त एव श्रमादयोऽतिशयितजृम्भायुक्ता भाविनं वातज्वरं नेत्रदाहयुक्ता भाविनं पित्त- ज्वरं वह्निमान्द्ययुक्ता भाविनं श्लेष्मज्वरं बोध- यन्ति ॥ * ॥
अथ लक्षणस्य लक्षणमाह । “पूर्ब्बरूपं विशिष्टं यद्व्यक्तं तल्लक्षणं स्मृतम् । संस्थानं लिङ्गचिह्ने च व्यञ्जनं रूपमाकृतिः ॥” विशिष्टं पूर्ब्बरूपं ईषद्व्यक्तं रूपं तदेव सम्य- ग्व्यक्तं लक्षणं स्मृतम् । तत्र शास्त्रे व्यवहाराय पर्य्यायानाह संस्थानमित्यादि । लक्षणं व्याधे- र्ज्ञानाय हेतुर्यथा । स्वेदावरोधः सन्तापः सर्व्वाङ्गग्रहणञ्च युगपदेतल्लक्षणं ज्वर बोध- यति ॥ * ॥
अथोपशयस्यं लक्षणमाह । “औषधान्नविहाराणामुपयोगं सुखावहम् । नृणामुपशयं विद्यात् स हि सात्म्यमिति स्मृतः ॥” तत्र वातस्योपशयमाह । “मधुरलवणसाम्लस्निग्धनस्योष्णनिद्रा- गुरुरुचिकरवस्तिस्वेदसंमद्दनानि । दहनजलदशेषाभ्यङ्गसन्तर्पणानि प्रकुपितपवमानं शान्तमेतानि कुर्य्युः ॥” अथ पित्तस्योपशयमाह । “तिक्तस्वादुकषायशीतपवनच्छायानिशावीजन- ज्योत्स्नाभूगृहयन्त्रवारिजलदस्त्रीगात्रसंस्प- र्शनम् । सर्पिः क्षीरविंरेकसेकरुधिरस्रावप्रदेहादिकं पानाहारविहारभेषजमिदं पित्तं प्रशान्तिं नयेत् ॥” अथ कफस्योपशयमाह । “रूक्षक्षारकषायतिक्तकटुकव्यायामनिष्ठीवनं धूमात्युष्णशिरोविरेकवमनं स्वेदोपवासादिकम् । तृड्घाताध्वनियुद्धजागरजलक्रीडाङ्गनासेवनं पानाहारविहारभेषजमिदं श्लेष्माणमुग्रं हरेत् ॥” जलक्रीडा कथं कफं हरति तदाह । जल- क्रीडाजनितशैत्येनावरुद्धदेहोष्मा पङ्कलिप्त- पाकाग्निरिवोग्रो भूत्वा कफं शोषयति इति समाधिः ॥ * ॥
उपशयो व्याधेर्ज्ञानाय हेतुर्यदुक्तं चरकेण । गूढलिङ्गं सङ्कीर्णलक्षणञ्च व्याधिमुप- शयानुपशयाभ्यां परीक्षेतेति । तथा च सुश्रुते । “अभ्यङ्गस्वेदनस्नेहैर्विकारो वातिको न यः । शाम्येत्तत्र तु विज्ञेयं रक्तमात्रास्ति दूषितम् ॥ सर्व्वेषामेव रोगानां निदानं कुपिता मलाः । तत्प्रकोपस्य तु प्रोक्तं विविधाहितसेवनम् ॥” सर्व्वेषां रोगानां निदानं सन्निकृष्टं कारणम् । कुपिताः स्वहेतुदुष्टाः । मला वातपित्तकफा एवेत्यन्वयः । तथा च वाग्भटः । दोषा एव हि सर्व्वेषां रोगाणामेककारणमिति । नत्वागन्तुज- व्याधिषु व्यभिचारः स्यात् । तन्न तत्राप्युत्पत्त्य- नन्तरं दोषप्रकोपस्यावश्यं भावित्वात् । उत्पन्न- द्रव्येषु गुणयोगस्येव । इति भावप्रकाशः ॥ * ॥
पापजरोगा यथा । शातातपीयकर्म्मविपाके । “कुष्ठञ्च राजयक्ष्मा च प्रमेहो ग्रहणी तथा । मूत्रकृच्छ्राश्मरीकाशा अतिसारभगन्दरौ ॥ दुष्टव्रणं गण्डमाला पक्षाघातोऽक्षिनाशनम् । इत्येवमादयो रोगा महापापोद्भवाः स्मृताः । जलोदरयकृत्प्लीहशूलरोगव्रणानि च । श्वासाजीर्णज्वरच्छर्द्दिभ्रममोहगलग्रहाः । रक्तार्व्वुदविसर्पाद्या उपपापोद्भवा गदाः ॥ दण्डावतानकश्चित्रवपुःकम्पविचर्च्चिकाः । वल्मीकपुण्डरीकाद्या रोगाः पापसमुद्भवाः ॥” तथा । “अर्शआद्या नृणां रोगा अतिपापाद्भवन्ति हि । अन्ये च बहुधा रोगा जायन्ते रोगसङ्कराः । उच्यन्ते हि निदानानि प्रायश्चित्तानि च क्रमात् ॥” सर्व्वरोगनाशकदानं यथा । हेमाद्रिधृतदान- खण्डे भगवद्वाक्यम् । “सुवर्णदानं सर्व्वेषां रोगाणां नाशकारणम् । तस्मात् सर्व्वप्रयत्नेन कर्त्तव्यं कमलोद्भव ॥” इति मलमासतत्त्वम् ॥ * ॥
अथारोग्यस्नानदिनम् । तत्र तिथयो रिक्ताः प्रशस्ताः । दशमीप्रतिपद्द्वितीयात्रयोदशी- पञ्चमीभिन्ना मध्यमाः । तत्र नक्षत्राणि । स्वाती- श्रवणाधनिष्ठाशतभिषाज्येष्ठाहस्तापुष्यपूर्ब्बा- षाढापूर्ब्बफल्गुनीपूर्ब्बभाद्रपन्मघाभरणीमृग- शिरांसि । तत्र वाराः क्रूराः । तत्र योगो व्यती- पातः । अशोभनश्चन्द्रः । लग्नापेक्षया केन्द्रेषु पापग्रहः । इति ज्योतिस्तत्त्वम् ॥ अपि च । “चन्द्राशुद्धौ व्यतीपाते भौमार्कशनिवासरे । व्रणमुक्तो व्याधिमुक्तः कृशः स्नानं समाचरेत् ॥ पूर्व्वात्रयमघाश्लेषा भरणी कृत्तिका तथा । आर्द्रायाञ्च तिथौ रिक्ते चारोग्यस्नानमाचरेत् ॥” इति ज्योतिःसारसंग्रहः ॥