वाचस्पत्यम्
रोगलक्षण || न० रोगो लक्ष्यते ज्ञायतेऽनेन लक्ष—करणे ल्युट् । रोगानुमापके धातुवैषम्यहेतुके चिह्नभेदे निदाने राजनि “रोगस्तु दोषवैषम्यं दोषसाम्यमरोगता । रोगा दुःखस्य दातारो ज्वरप्रभृतयो हि ते । ते च स्वाभाविकाःकेक्षि- त्केचिदागन्तवः स्मृताः । मानसाः केचिदाख्याताः कथि ताः केऽपि कायिकाः । तत्र स्वाभाविकाः शरीरस्वभा वादेव जाताः क्षुत्पिपासासुषुप्त्यादिजरामृत्युप्रभृ तयः अथ वा स्वस्वभावादुत्पत्तेर्जाता स्वाभाविकाः सहजा इति यावत् । ते च जन्मान्धत्वादयः । आगन्त वोऽभिघातादिजनिताः । अथ वा जन्मोत्तरभाविनः कामक्रोधलोभमोहभयाभिमानदैन्यपैशुन्यशोकविषादेर्ष्या- सूयामात्सर्य्यप्रभृतयः । अथ वा उन्मादापस्मार मूर्च्छाभ्रममोहतमःसंन्यासप्रभृतयः । कायिकाः पाण्डु- रोगप्रभृतयः “कर्म्मजाः काथिताः केचिद्दोषजाः सन्ति चापरे । कर्म्मदोषोद्भवाश्चान्ये व्याधयस्त्रिविध स्मृताः” । तत्र कर्म्मजा व्याधयः यत्प्राक्तनन्दुष्कम प्रबलङ्केवलंभोगनाश्यम् प्रायश्चिचनाश्यं वा ततं जाताः नतु दुष्ट वातादिदौषेण जनितास्तथा । “यथा- शास्त्रन्तु निर्णीतो यथाव्याधि चिकित्सितः । न शा याति यो व्याधिः स ज्ञेयः कर्म्मजो बुधैः” । दोषजाः । मिथ्याहारविहारप्रकुपितवातपित्तकफजाः । ननु मिथ्या- हारविहारिणामपि प्राक्तनमुकृतेन नैरुज्य दृश्यत एव । ततो दोषजेष्वपि प्राक्तनं दुष्कर्मैव कारणम् तत् कथं दोषजा इत्युच्यते । दोषजेष्वपि वस्तुतः आदि कारणं दुष्कर्म वर्त्तत एव किन्तु तत्र मिथ्याहारविहार दूषिता दोषा हेतवो दृश्यन्त इति दोषजा इत्युच्यन्ते इति समाधिः । कर्मदोषोद्भवाः “स्वल्पदोषा गरीयांसो- ऽधर्मास्ते कमदोषजाः” । अत्र कारणं दुष्कर्म प्रबलं यतो दोषाल्पत्वेऽपि व्याधेर्गरीयस्त्वन्तत्कर्मक्षयादेव क्षीणं भवति । दोषाः स्वल्पा अपि निदानत्वेनोक्ता दृश्यन्त एवेति दोषाणां कारणता मन्यन्त इति । “कर्मक्षयात् कर्मकृता दोषजाः स्वस्वभेषजैः । कर्मदोषोद्भवा यान्ति कर्मदोषक्षये क्षयम्” । दोषजाः स्वस्वभेषजैरिति दोष- जष्यादिकारणं दुष्कर्म तद्भेषजाथं द्रव्यक्षयादिजनित दुःखभोगेन कटुतिक्तकषायाद्यहृद्यभक्षणादिजनित- दुःखभोगेन च क्षयं यान्ति । शेषा दुष्टा हेतवो दोषास्ते स्वस्वभंषजैः क्षयं यान्तीत्यर्थंः । “साध्या याप्या असाध्याश्च व्याधयस्त्रिविधाः स्मृताः । सुखसाध्यः कष्टसाध्यो द्विविधः साध्य उच्यते” । याप्यलक्षणमाह “यापनीयन्तु वृत्तायां सद्यो यश्च विनश्यति । प्राप्तः- क्रिया धारयति सुखिनं याय्यमातुरम् । प्रषतिष्यदिवा- गार स्तम्भो यत्नेन योजितः । साध्या याप्यत्वमायान्ति याप्याश्चासाध्यतान्तथा । घ्नन्ति प्राणानसाध्यास्तु नराणा मक्रियावताम्” । अक्रियावतां चिकित्सारहितानाम् । अथोपद्रवस्य लक्षणम् । “रोगारम्भकदोषस्य प्रकोपादुप- जातते । बोऽन्यो विकारः स बुधैरुपद्रव इहोदितः” ।
शब्दकल्पद्रुमः
रोगलक्षणं || क्ली (रोगाणां लक्षणम् ।)
निदानम् । इति राजनिर्घण्टः ॥