संस्कृत-शब्दकोशः

रोगहर रोगहारिन्

रोगहरद्रव्यं

शब्दकल्पद्रुमः

रोगहरद्रव्यं || क्ली (रोगहरं रोगनाशकं द्रव्यम् ।)
रोगनाशकवस्तु । यथा, — धन्वन्तरिरुवाच । “द्रव्याणि मधुरादीनि वक्ष्ये रोगहराण्यहम् । शालिषष्टिकगोधूमक्षीरञ्चैव तथा मधु ॥ मज्जाशृङ्गाटकयवकशेर्व्वारुकगोक्षुरम् । गम्भारी पौष्करं बीजं द्राक्षा खर्ज्जूरकं वला ॥ नारिकेलेक्ष्वात्मगुप्ता विदारी च पियालकम् । मधुकं तालकुष्माण्डं मुख्योऽयं मधुरो गणः ॥ मूर्च्छादाहप्रशमनः षडिन्द्रियप्रसादनः । कृमिकृत् कफकृत् वृष्य एकोऽत्यर्थं निषेवितः ॥ श्वासकाशास्यमाधुर्य्यस्वरघातार्व्वुदानि च । गलगण्डश्लीपदानि गुडलेपादि कारयेत् ॥ * ॥
दाडिमामलकाम्रञ्च कपित्थकरमर्द्दकौ । मातुलुङ्गाम्रातकञ्च वदरं तित्तिरीफलम् ॥ दधितक्रं काञ्जिकञ्च लकुचं चाम्लवेतसम् । अम्ला दन्तशठायुक्तो जारणः पाचनो रसः ॥ क्लेदनो वातकृत् वृष्यो विदाही चानुलोमनः । अम्लोऽत्यर्थं सेव्यमानः कुर्य्याद्वे दन्तहर्षकम् ॥ शरीरस्य च शैथिल्यस्वरकुण्ठनकृद्भवेत् । छिन्नभिन्नव्रणादीनि पाचयत्यग्निभावतः ॥ * ॥
लवणादियवक्षारः सर्ज्जकादिश्च लावणः । शोधनः पाचनः क्लेदी विश्लेषसर्पणादिकृत् ॥ मागरोधी मार्दवकृत् स एकः परिषेवितः । गात्रकण्डूकोठशोफवैवर्ण्यं जनयेद्रसः । रक्तवातं रक्तपित्तं पुंस्त्वेन्द्रियरु जादिकम् ॥ * ॥
व्योषशिग्रुं मूलकञ्च देवदारु च कुष्ठकम् ॥ लवणं जम्बुजफलं मुस्ता गुग्गुलुलाङ्गली । कटुको दीपनः शोधी कुष्ठकण्डूकफान्तकृत् ॥ स्थौल्यालस्यकृमिहरः शुक्रमेदोविरोधनः । एकोऽत्यर्थं सेव्यमानो भ्रमदाहादिकृद्भवेत् ॥ * ॥
कृतमालः करीराणि हरिद्रेन्द्रयवास्तथा । स्वादुकण्टकवेत्राणि बृहतीद्वयशङ्खिनी ॥ गुडूची च द्रवन्ती च त्रिवृन्मण्डूकपर्ण्यपि । कारवेल्लकवार्त्ताकुकरवीरकवासकाः ॥ रोहिणी शङ्खपुष्पी च कर्कोटो वैजयन्तिका । जाती वरुणकं निम्बो ज्योतिष्मती पुनर्न्नवा ॥ तिक्तो रसश्छेदनः स्याद्रोचनो दीपनस्तथा । शोधनो जरतृष्णाघ्नो मूर्च्छाकण्डूतिकादिजित् ॥ विण्मूत्रक्लेदसंशोषे अत्यर्थं स च सेवितः । मन्यास्तम्भक्षेपकार्त्तिशिरःशूलव्रणादिहृत् ॥ * ॥
त्रिफलाशल्लकीजम्बु आम्राम्रातवटादिकम् । तिन्दुकं वकुलं शाकं निष्पावं मुद्गचिल्लिका ॥” निष्पावस्थाने पालङ्क्या इति क्वचित् पाठः । “कषायो ग्राहको रोपी स्तम्भनः क्लेदशोषणः । एकोऽत्यर्थं सेव्यमानो हृदयादथ पीडकृत् ॥ मुखशोषज्वराध्वानमन्यास्तम्भादिकारकः । * । हरिद्रा कुष्ठलवणमेषशृङ्गीवलाद्बयम् ॥ कच्छपी शल्लकी पन्नो पुनर्न्नवा शतावरी । अग्निमन्थो ब्रह्मदण्डी स्वदंष्ट्रैरण्डके तथा ॥ यवकोलकुलत्थादि कर्षासीदसमूलकम् । पृथक् समस्तो वातान्तो बंहुपित्तहरस्तथा ॥ शतावरी विदारी च वालकोशीरचन्दनम् । दूर्व्वा वटः पिप्पली च वदरी शल्लकी तथा ॥ कदली चोत्पलं पद्ममुडुम्बरपटोलकम् । * । अथ श्लेष्महरो वर्गो हरिद्रा गुडकुष्ठकम् ॥ शतपुष्पी च जाती च व्योषारग्वधनाकुली । * । सर्पिस्तैलवसामज्जा स्नेहेषु प्रवरं घृतम् ॥ तथाधीस्मृतिमेधाग्निकाङ्क्षिणां शस्यते घृतम् । केवलं पैत्तिके सर्पिर्व्वातिके लवणान्वितम् ॥ देयं बहुकफे वापि व्योषक्षारसमन्वितम् । ग्रन्थीनाडीक्रमिश्लेष्ममेदोमारुतरोगिषु ॥ * ॥
तैलं लाघवदार्ढ्याय क्रूरकोष्ठेषु देहिषु । वातातपास्वभावातिव्यायामक्षीणधातुषु ॥ रूक्षे क्लेशक्षयात्यग्निवातावृतपथेषु च । तथा दग्धा हलभ्रष्टा योनिकर्म्मा शिरोरुजि ॥ उत्तमस्य पलं मात्रा त्रिभिश्चाक्षैश्च मध्यमे । जघन्यस्य पलार्द्धेन स्नेहक्वाथौषधेषु च ॥ * ॥
जलमुष्णं घृते देयं पृथक् तैले न शस्यते । स्नेहे पीते तु तृष्णायां पिबे दुष्णोदकं नरः ॥ वातानुलोमदीप्ताग्निवर्च्चास्निग्धसमं मतम् । रूक्षस्य स्नेहणं कार्य्यमतिस्निग्धस्य रूक्षणम् ॥ श्यामाककोरदूषान्नतक्रपिण्याकषष्टिभिः । वातश्लेष्मणि वाते वा कफे वा स्वेद इष्यते ॥ न स्वेदयेदतिस्थूलरूक्षदुर्ब्बलमूर्च्छितान् ॥” इति गारुडे योगसारे १७७ अध्यायः ॥ * ॥
धन्वन्तरिरुवाच । “घृततैलादि वक्ष्यामि शृणु सुश्रुत रोगनुत् । शङ्खपुष्पी वचा सोमा ब्राह्मी ब्रह्मसुवर्च्चला ॥ अभया गुडूची चैव अट्टरूषकवाकुची । एतैरक्षसमैर्भागैर्घृतप्रस्थं विपाचयेत् ॥ कण्टकार्य्या रसप्रस्थः क्षीरप्रस्थसमन्वितः । एतद्ब्राह्मीघृतं नाम श्रुतिमेधाकरं परम् ॥ * ॥
त्रिफलाचित्रकवलानिर्गुण्डीनिम्बवासकाः । पुनर्नवा गुडूची च बृहती च शतावरी ॥ एतैर्घृतं यथालाभं सर्व्वरोगविमर्द्दनम् । * । वलाशतकषाये तु तैलस्यार्द्धाढकं पचेत् ॥ कल्कैर्म्मधुकमञ्जिष्ठाचन्दनोत्पलपद्मकैः । सूक्ष्मैलापिप्पलीकुष्ठत्वगेलागुरुकेशरैः ॥ गन्धाश्वजीवनीयैश्च जीराढकसमाश्रितम् । एतन्मृद्वग्निना पक्वं स्थापयेद्रजते शुभे ॥ सर्व्ववातविकारांस्तु सर्व्वधात्वन्तराश्रयान् । तैलमेतत् प्रशमयेद्बलाख्यं राजवल्लभम् ॥ * ॥
शतावरीरसप्रस्थं क्षीरप्रस्थं तथैव च । शतपुष्पा देवदारु मांसी शैलेयकं वला ॥ चन्दनं तगरं कुष्ठं माला चांशुमती तथा । एतैः कर्षसमैः कल्कैस्तैलप्रस्थं विपाचयेत् ॥ कुब्जवामनपङ्गूनां वधिरव्यङ्गकुष्ठिनाम् । वायुना भग्नगात्राणां ये च सीदन्ति मैथुने ॥ जराजर्ज्जरगात्राणां चाध्मानमुखशोषिणाम् । त्वग्गताश्चापि ये वाताः शिरास्नायुगताश्च ये ॥ स वस्तिर्नाशयत्याशु तैश्चैव स्याद्दशाङ्गकः । नारायणमिदं तैलं विष्णुनोक्तं रुगर्द्दनम् ॥ * ॥
पृथक् तैलं घृतं कुर्य्यात् समस्तैरौषधैः पृथक् । शतावर्य्या गुडूच्या वा चित्रकै रोचनायुतः ॥ निर्गण्ड्या वा प्रसारण्या कण्टकार्य्या रसा- दिभिः । वर्षावानलया वापि वासकेन फलत्रिकैः ॥ ब्राह्म्या चैरण्डकेनापि भृङ्गराजेन मुण्डिना । मूषल्या दशमूलेन खदिरेण वटादिभिः ॥ वटिका मोदको वापि चूर्णं स्यात् सर्व्वगोग- नुत् । घृतेन मधुना वापि युक्तं खण्डगुडादिभिः । लवणैः कटुकैर्युक्तं यथाभागञ्च रोगनुत् ॥ चित्रकर्कारुत्रिवृतामलघ्नहयमारकम् । स्वधा च वाला गणिका सप्तपर्णसुवर्च्चिकाम् ॥ ज्योतिष्मतीञ्च संभृज्य तैलं धीरो विपाचयेत् । एतन्निष्यन्दनं तैलं भृशं दद्यात् भगन्दरे ॥ शोधनं रोचनञ्चैव सर्व्ववर्णकरं परम् । चित्रकाद्यं महातैलं सर्व्वरोगप्रभञ्जनम् ॥ अजमोदः ससिन्दूरो हरितालनिशाद्वयम् । क्षारद्बयं फेनयुतमार्द्रकं सरलोद्भवम् ॥ इन्द्रवारुण्यपामार्गकदलैः कन्दलैः समैः ।” कन्दलैः स्थाने स्यन्दनैः इति च पाठः । “एमिः सर्षपजं तैलमजामूत्रैश्च योजितम् । मृद्वग्निना पचेदेतत् अकक्षीरेण संयुतम् ॥ अजमोदादिकं तैलं गण्डमालां व्यपोहति । विदग्धस्तु पचेत् पक्वं पक्वञ्चैव विशोधयेत् ॥ रोपणं मृदुभावञ्च तैलेनानेन कारयेत् । अजमोदादिकं तैलं महावीर्य्यञ्च रोगहृत् ॥” इति गारुडे १७८ अध्यायः ॥



Correction: