वाचस्पत्यम्
रोगहारिन् || पु० रोगं हरति हृ—णिनि । १ चिकित्सके वैद्ये अमरः । २ रोगनाशके त्रि० ।
शब्दकल्पद्रुमः
रोगहारी || [न्] पुं, (रोगं हरति तच्छीलः । हृ + णिनिः ।) वैद्यः । इत्यमरः । २ । ६ । ५७ ॥ रोगनाशके, त्रि ॥