संस्कृत-शब्दकोशः

रोगितरु रोगिवल्लभ

रोगिन्

वाचस्पत्यम्

रोगिन् ||‍ त्रि० रोग + अस्त्यर्थे इमि रुज—घिनुण् वा । १ व्याधियुक्ते राजनि० स्त्रियां ङीप् ।


शब्दकल्पद्रुमः

रोगी || [न्] त्रि, (रोगोऽस्यास्तीति । रोग + इनिः ।)
रोगयुक्तः । तत्पर्य्यायः । व्याधितः २ विकृतः ३ ग्लानः ४ म्लानः ५ मन्दः ६ आतुरः ७ अभ्यान्तः ८ अभ्यमितः ९ रुग्नः १० सामयः ११ अपटुः १२ । इति राजनिर्घण्टः ॥ आम- यावी १३ ग्लास्नुः १४ । इत्यमरः ॥ * ॥
अथ चिकित्सार्थं रोगिणः परीक्षा । तत्र वाग्- भटः । “दर्शनस्पर्शनप्रश्नैः परीक्षेदथ रोगिणम् । आयुरादि दृशा स्पर्शाच्छीतादेः प्रश्नतोऽप- रम् ॥” आयुरादि । आदिशब्दात् साध्यत्वासाध्य- त्वादि । दृशा दर्शनेन । अत्र सम्पदादिभ्य- श्चेति भावे क्विप् । स्पर्शात् शीतादेः । शीतोष्ण- मृदुकठिनत्वादिना परीक्षणञ्च । प्रश्नतः । उदरलाघवगौरवतृषाबुभुक्षाबलाबलादिना ॥ “मिथ्या दृष्टा विकारा हि दुराख्यातास्तथैव च । तथा दुष्परिपृष्टाश्च मोहयेयुश्चिकित्सकान् ॥” तत्र दर्शनं नेत्रजिह्वामूत्रादेः कर्त्तव्यम् ॥ * ॥
तत्र नेत्रपरीक्षा यथा, —
“नेत्रं स्यात् पवनाद्रूक्षं धूम्रवर्णं तथारुणम् । कोटरान्तःप्रविष्टञ्च तथास्तञ्च विलोकनम् ॥ हरिद्राखण्डवर्णञ्च रक्तंवा हरितं तथा । दीपद्वेषि सदाहञ्च नेत्रं स्यात् पित्तकोपतः ॥ चक्षुर्व्वलाशबाहुल्यात् स्निग्धं स्यात् सलिल- प्लुतम् । तथा धवलवर्णञ्च ज्योतिर्हीनं बलान्वितम् ॥ नेत्रं द्बिदोषबाहुल्यात् स्याद्दोषद्वयलक्षणम् । त्रिदोषलिङ्कं सेवेत तन्मारयति रोगिणम् ॥ त्रिदोषदूषित नेत्रमन्तर्म्मग्नं भृशं भवेत् । त्रिलिङ्गं सलिलस्रावि प्रान्तेनोन्मीलयत्यपि ॥” * अथ जिह्वापरीक्षा । “शाकपत्रप्रभा रूक्षा स्फुटिता रसनानिलात् । रक्ता श्यामा भवेत् पित्ताल्लिप्तार्द्रा धवला कफात् । परिदग्धा खरस्पर्शा कृष्णा दोषत्रयेऽधिके । सैव दोषद्वयाधिक्ये दोषद्बितयलक्षणा ॥” अथ मूत्रपरीक्षा । “वातेन पाण्डुरं मूत्रं रक्तं नीलञ्च पित्ततः । रक्तमेव भवेद्रक्ताद्धवलं फेनिलं कफात् ॥” अथ शरीरस्य उष्णत्वादिज्ञानार्थं स्पर्शनं कार्य्यम् । तत्र नाडीपरीक्षामाह । “पुंसो दक्षिणहस्तस्य स्त्रियो वामकरस्य तु । अङ्गुष्ठमूलगा नाडी परीक्ष्येत भिषग्वरैः ॥ अङ्गुलीभिस्तु तिसृभिर्नाडीमवहितः स्पृशेत् । तच्चेष्टया सुखं दुःखं जानीयात् कुशलोऽखि- लम् ॥ सद्यःस्नातस्य सुप्तस्य क्षुत्तृष्णातपशीलिनः । व्यायामश्रान्तदेहस्य सम्यक् नाडी न बुध्यते ॥ वातेऽधिके भवेन्नाडी प्रव्यक्ता तर्ज्जनीतले । पित्ते व्यक्ता मध्यमायां तृतीयाङ्गुलिगा कफे ॥ तर्ज्जनीमध्यमामध्ये वातपित्तेऽधिके स्फुटा । अनामिकायां तर्ज्जन्यां व्यक्ता वातकफे भवेत् ॥ मध्यमानामिकामध्ये स्फुटा पित्तकफेऽधिके । अङ्गुलित्रितयेऽपि स्यात् प्रव्यक्ता सन्निपातिनः ॥ वाताद्बक्रगतिर्न्नाडी पित्तादुत्प्लुत्य गामिनी । कफान्मन्दगतिर्ज्ञेया सन्निपातादतिद्रुता ॥ वक्रमुत्प्लुत्य चलति धमनी वातपित्ततः । वहेद्वक्रञ्च मन्दञ्च वातश्लेष्माधिके ततः ॥ उत्प्लुत्य मन्दं चलति नाडी पित्तकफेऽधिके । कामात् क्रोधात् वेगवहा क्षीणा चिन्ताभया- प्लुता ॥ स्थित्वा स्थित्वा चलेद्या सा हन्ति स्थानच्युता तथा । अतिक्षीणा च शीता च प्राणान् हन्ति न संशयः ॥ ज्वरकोपेन धमनी सोष्णा वेगवती भवेत् । मन्दाग्नेः क्षीणधातोश्च सैव मन्दतरा मता ॥ चपला क्षुधितस्य स्यात् तृप्तस्य भवति स्थिरा । सुखिनोऽपि स्थिरा ज्ञेया तथा बलवती मता ॥” इति भावप्रकाशः ॥ (लक्षणान्तरादिकमाह । “रोगो यस्यास्ति रोगी स स चिकित्स्यस्तु यादृशः । यादृशश्चाचिकित्स्योऽपि वक्ष्यमाणो निशम्य- ताम् ॥” तत्र चिकित्स्यः । “निजप्रकृतिवर्णाभ्यां युक्तः सत्त्वेन चक्षुषा । चिकित्स्यो भिषजां रोगी वैद्यभक्तो जिते- न्द्रियः ॥” सत्त्वं व्यसनाभ्युदयक्रियादिष्वविह्वलताकरं तेन युक्तः । चक्षुषा चक्षुरुपलक्षितेन । ततोऽन्ये- नापीन्द्रियेण चिकित्स्यः रोगान् मोचयितव्यः । अन्यच्च । “आयुष्मान् सत्त्ववान् साध्यो द्रव्यवान् मित्र- वानपि । चिकित्स्यो भिषजा रोगी वैद्यवाक्यकृदा- स्तिकः ॥” आयुर्व्वेदोऽस्तीति मतिर्यस्य स आस्तिकः ॥ अथाचिकित्स्यः । “चण्डः साहसिको भीरुः कृतघ्नो व्यग्र एव च । शोकाकुलो मुमूर्षुश्च विहीनः करणैश्च यः ॥ वैरी वैद्यविदग्धश्च श्रद्धाहीनश्च शङ्कितः । भिषजामविधेयाः स्युर्नोपक्रम्या भिषग्विधाः ॥ एतानुपाचरन् वैद्यो बहून् दोषानवाप्नुयात् ॥” चण्डोऽत्यन्तक्रोधशीलः । साहसिकः अविचार्य्य- कारी । भीरुर्भयशीलः । कृतघ्नो वैद्यकृतोप- कारलोपकः । व्यग्रो व्याकुलः । विहीनः कर- णैश्च यः निजेन्द्रियशक्तिरहितः । वैरी न चिकित्स्यः कदाचिद्रोगोद्रेके अपवादभयात् । वैद्यविदग्धो वैद्यधूर्त्तः । तथा च सुश्रुतः । “स न सिद्ध्यति वैद्यस्तु गृहे यस्य न पूज्यते ।” शङ्कितो वैद्यविश्वासरहितः । भिषजामविधेयाः ॥ वैद्यवचनाविधायिनः । भिषग्विधा वैद्यतुल्याः । एते नोपक्रम्याः न चिकित्स्याः । अथ दूतस्य लक्षणम् । “यश्चिकित्सकमानेतुं याति दूतः स कथ्यते । स च यादृक् समुचितस्तादृगत्र निगद्यते ॥ दूताः सुजातयोऽव्यङ्गाः पटवो निर्म्मलाम्बराः । सुखिनोऽश्ववृषारूढाः शुभ्रपुष्पफलैर्युताः ॥ सजातयः सुचेष्टाश्च सजीवदिशिसङ्गताः । भिषजं समये प्राप्ता रोगिणः सुखहेतवे ॥” सजातयः रोगिसमानजातयः । “यस्यां प्राणमरुद्बाति सा नाडी जीव- संज्ञिता ॥” अथ दूतस्य यात्रायां शकुनविचारः । “वैद्याह्वानाय दूतस्य गच्छतो रोगिणः कृते । न शुभं सौम्य शकुनं प्रदीप्तन्तु सुखावहम् ॥” प्रदीप्तमग्निं दूतो रोगी रिक्तहस्तो वैद्यं न पश्येत् । तथा च । “रिक्तहस्तो न पश्येत्तु राजानं भिषर्जगुरुम् ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)



Correction: