वाचस्पत्यम्
रोचक || त्रि० १ रुचिकारके । २ क्षुधायां हेमच० । ३ कदल्यां शब्द० ४ राजपलाण्डौ ५ अवदंशे (चाटनि) च राजनि० ६ ग्रन्थि र्णभेदे विश्वः ।
शब्दकल्पद्रुमः
रोचकः || पुं, (रोचयतीति । रुच् + णिच् + ण्वुल् ।)
क्षुधा । तत्पर्य्यायः । बुभुक्षा २ अशना ३ जिघत्सा ४ रुचिः ५ । इति हेम- चन्द्रः । ३ । ५७ ॥ कदली । इति शब्दरत्ना- वली ॥ राजपलाण्डुः । अवदंशः । इति राज- निर्घण्टः ॥ ग्रन्थिपर्णभेदः । भण्डिउर इति नेपालदेशे ख्यातः । तत्पर्य्यायः । निशाचरः २ धनहरः ३ कितवः ४ गणहासकः ५ । अस्य गुणाः । मधुरत्वम् । तिक्तत्वम् । कटुत्वम् । पाके कटुत्वम् । लघुत्वम् । तीक्ष्णत्वम् । हृद्य- त्वम् । हिमत्वम् । कुष्ठकण्डूकफानिलरक्षोऽश्री स्वेदमेदोऽस्रज्वरगन्धविषव्रणनाशित्वञ्च । इति भावप्रकाशः ॥ (काचकूप्यादिकारकः । यथा, रामायणे । २ । ८३ । १३ । “मायूरकाः क्राकचिका वेधका रोचका- स्तथा ॥” “रोचकाः काचकुप्यादिकर्त्तारः इति कतकः ।” इति तट्टीका ॥)
रुचिकारके, त्रि ॥ (यथा, सुश्रुते । १ । ४६ । मांसवर्गे । “संग्राही रोचको बल्यस्तेषामेणो ज्वरापहः ॥”)