संस्कृत-शब्दकोशः

रोचनफला रोचनिका

रोचना

शब्दकल्पद्रुमः

रोचना || स्त्री (रोचते या । रुच् + “बहुलमन्य- त्रापि ।” उणा० २ । ७८ । इति युच् । टाप् ।)
रक्तकह्लारम् । गोपित्तम् । गोरोचना इति ख्यातम् । (यथा, मनुः । ८ । २३४ । “कर्णौ चर्म्म च बालांश्च वस्तिं स्नायुञ्च रोच- नाम् । पशुषु स्वामिनां दद्यात् मृतेष्वङानि दर्शयेत् ॥”)
वरयोषित् । इति मेदिनी । ने, ११८ ॥ (वसु- देवपत्नी । यथा, भागवते । ९ । २४ । ४५ । “पौरवी रोहिणी भद्रा मदिरा रोचना इला । देवकी प्रमुखाश्चासन् पत्न्य आनकदुन्दुभेः ॥”)



Correction: