वाचस्पत्यम्
रोचनी || स्त्री रोचयतीति कर्त्तरि ल्युट् गौरा० ङीष् । १ मनःशिलायाम् हेमच० २ गोरोचनायां ३ आमलक्याम, राजनि० ४ श्वेतत्रिवृति, ५ गन्धद्रव्यभेदे च (गुडारोचना) अमरः ।
शब्दकल्पद्रुमः
रोचनी || स्त्री (रोचते इति । रुच् + कृत्यल्युटो बहुलमिति ल्युट् । ततो ङीष् ।)
आमलकी । गोरोचना । इति राजनिर्घण्टः ॥ मनःशिला । इति हेमचन्द्रः ॥ श्वेतत्रिवृता । गुँडारोच- नीतिख्यातबणिग्द्रव्यम् । तत्पर्य्यायः । काम्पिल्लः २ कर्कशः ३ चन्द्रः ४ रक्ताङ्गः ५ । इत्यमरः ॥ कम्पिल्लः ६ कम्पीलः ७ कम्पिलः ८ काम्पिल्यः ९ रेचनी १० । इति भरतः ॥ पर्य्यायान्तरं गुणाश्च कम्पिल्लकशब्दे द्रष्टव्याः ॥