वाचस्पत्यम्
रोचमान || पु० रुच—शानन् । १ अश्वग्रीवास्थरोमावर्त्ते त्रिका० । २ रुचियुक्ते त्रि० ।
शब्दकल्पद्रुमः
रोचमानः || पुं, (रोचते इति । रुच् + शानच् ।)
अश्वग्रीवास्थरोमावर्त्तः । यथा, —
“श्रीवृक्षो हृदयावर्त्तो रोचमानो गलोद्भवः ॥” इति त्रिकाण्डशेषः ॥ (यथा, माधे । ५ । ४ । “अश्वाः ष्यधुर्वसुमतीमतिरोचमाना- स्तूर्णं पयोधय इवोर्म्मिभिरापतन्तः ॥” नृपविशेषः । यथा, महाभारते । १ । ६७ । १८ । “अश्वग्रीव इति ख्यातः सत्त्ववान् यो महा- सुरः । रोचमान इति ख्यातः पृथिव्यां सोऽभवन्नृपः ॥” दीप्यमाने, त्रि । यथा, कथासरित्सागरे । ७४ । ७८ । “रोचमानैः समायुक्तचूडामण्यङ्गदादिभिः । गन्धर्व्वकुलसम्भूतिसंसिद्धैरिव भूषितम् ॥”)