वाचस्पत्यम्
रोचिष्णु || त्रि० रुच—इष्णुच् । १ दीप्तिशीले २ रुचिशीले च ।
शब्दकल्पद्रुमः
रोचिष्णुः || त्रि (रोचते तच्छीलः । रुच् + “अलं कृञ् निराकृञिति ।” ३ । २ । १३६ । इति इष्णुच् ।)
अलङ्कारादिना दीप्तिशीलः । तत्- पर्य्यायः । विभ्राट् २ भ्राजिष्णुः ३ । इत्यमरः ॥ (यथा, कथासरित्सागरे । ९४ । ९ । “तत्र शूकरवृन्दानि भिन्दन् बाणैर्निरन्तरम् । श्यामलाम्बररोचिष्णुस्तमांसीव रविः करैः ॥” रोचकः । यथा, सुश्रुते । १ । ४५ । मद्यवर्गे । “सुगन्धि दीपनं हृद्यं रोचिष्णु कृमिनाशनम् ॥”)