वाचस्पत्यम्
रोध || पु० रुध—घञ् । १ रोधने २ आवरणे च ३ नदीतीरे भरतः ।
शब्दकल्पद्रुमः
रोधः || पुं, (रुणद्धि जलमिति । रुध् + पचाद्यच् ।)
नदीतीरम् । इत्यमरटीकायां भरतः । १ । १० । ७ ॥ (रुध् + घञ् । रोधनम् । यथा, मार्कण्डेये । १३ । १ । “अहं वैश्यकुले जातो जन्मन्यस्मात्तु सप्तमे । समतीते गवां रोधं निपाने कृतवान् पुरा ॥”)