शब्दकल्पद्रुमः
रोदस्यौ || स्त्री भूमिस्वर्गौ । यथा, —
“प्रसूरश्वापि भूद्यावौ रोदस्यौ रोदसी च ते ॥” इत्यमरः । ३ । ३ । २२८ ॥ “भूर्भूमिः द्यौराकाशं एते सहिते विगृहीते च रोदसीरोदःशब्दयोर्वाच्येते इति भूद्यावौ परा- मृष्येते एतेन ईवन्तसान्तशब्दद्वयेन एकवच- नान्तेनापि भूद्यावौ समुदिते उच्येते । ‘रोदश्च रोदसी चापि दिवि भूमौ पृथक् पृथक् । सह प्रयोगेऽप्यनयो रोदः स्यादपि रोदसी ॥’ इति विश्वः ॥ ‘रोदसी रोदसा सार्द्धं पृथ्वीस्वर्गे दिवि क्षितौ ॥’ इत्यजयः ॥ रोदसीत्यव्ययमप्यस्ति । यथा । द्यावापृथिव्यौ रोदस्यौ रोदसी रोदसीति चेति ।” इति तट्टीकायां भरतः ॥