शब्दकल्पद्रुमः
रोप्यातिरोप्यः || पुं, धान्यविशेषः । अस्य गुणाः । “रोप्यातिरोप्या लघवः शीघ्रपाका गुणोत्तराः । अदाहिनो दोषहरा बल्या मूत्रविवर्द्धनाः ॥” इति राजवल्लभः ॥