वाचस्पत्यम्
रोमकूप || पु० रोम्णां कूप इव । रोमाधारे विवरे “न रोमकूपौघमिषादिति” नैषधम् ।
शब्दकल्पद्रुमः
रोमकूपः || पुं, (रोम्णां कूपः ।)
लोमविवरम् । यथा, —
“प्रजापतिश्चाक्षमालां ददौ ब्रह्मा कमण्डलुम् । समस्तरोमकूपेषु निजरश्मीन्दिवाकरः ॥” इति मार्कण्डेयपुराणे देवीमाहात्म्यम् ॥ (तथा च । “ऊर्द्ध्वं नासाक्षिकर्णास्यैर्मेढ्रयोनिगुदैरधः । कुपितं रोमकूपैश्च समस्तैस्तत्प्रवर्त्तते ॥” इति वाभटे निदानस्थाने तृतीयेऽध्याये ॥)