वाचस्पत्यम्
रोमहर्ष || पु० रोम्णः हर्ष इव तद्व्यञ्जकत्वात् । रोमाञ्चे- हर्षौत्सुक्यादिभिः रोमकूपे जायमाने कण्टकाकारे पदार्थे हारा० । ल्युट् । रोमहर्षणमप्यत्र अमरः ।
शब्दकल्पद्रुमः
रोमहर्षः || पुं, (रोम्णां हर्षः ।)
रोमाञ्चः । इति हलायुधः ॥ (यथा, गीतायाम् । १ । २९ । “वेपथुश्च शरीरे मे रोमहर्षश्च जायते ॥”)