संस्कृत-शब्दकोशः

रोमहर्ष रोमाञ्च

रोमहर्षण

वाचस्पत्यम्

रोमहर्षण ||‍ पु० रोमाणि हर्षयति हृष णिच् ल्युट् । १ विभी- तकवृक्षे मेदि० २ लोमहर्षणे मुनिभेदे च ।


शब्दकल्पद्रुमः

रोमहर्षणं || क्ली (रोम्णां हर्षणम् ।)
रोमाञ्चः । इत्यमरः ॥ (रोम्णां हर्षणं यस्मात् । रोमाञ्च- करे, त्रि । यथा, गीतायाम् । १८ । ७४ । “संवादमिदमश्रौषमद्भुतं लोमहर्षणम् ॥”)


शब्दकल्पद्रुमः

रोमहर्षणः || पुं, सूतः । अस्य व्युत्पत्तिर्यथा, —
“अस्य ते सर्व्वरोमाणि वचसा हृषितानि यत् । द्वैपायनस्य भगवंस्ततो वै रोमहर्षणः । भवन्तमेव भगवान् व्याजहार स्वयं प्रभुः ॥” इति कौर्म्मे १ अध्यायः ॥ (स तु व्यासशिष्यः । यथा, भागवते । १० । ७८ । २२ । “सोऽर्च्चितः सपरीवारः कृतासनपरिग्रहः । रोमहर्षणमासीनं महर्षेः शिष्यमैक्षत ॥” अस्यान्यद्बिवरणं लोमहर्षणशब्दे द्रष्टव्यम् ॥)
विभीतकवृक्षः ॥ इति मेदिनी । ने, ११६ ॥



Correction: