संस्कृत-शब्दकोशः

रोमहर्षण रोमाञ्चिका

रोमाञ्च

वाचस्पत्यम्

रोमाञ्च ||‍ पु० रोम्णामञ्चः उद्गमः अन्च—अच् । रोमहर्षे अमरा ।


शब्दकल्पद्रुमः

रोमाञ्चः || पुं, (रोम्णां अञ्चः उद्गमः ।)
रोम- हर्षणम् । इत्यमरः ॥ पुलककण्टकरोमविक्रिया रोमोद्गमरोमहर्षश्चात्र । इति भरतः ॥ (स तु सात्त्विकभावानामन्यतमः । यथा, साहित्य- दर्पणे । ३ । १६६ । “स्तम्भः स्वेदोऽथ रोमाञ्चः स्वरभङ्गोऽथ वेपथुः । वैवर्ण्यमश्रुप्रलय इत्यष्टौ सात्त्विकाः स्मृताः ॥” “हर्षाद्भुतभयादिभ्यो रोमाञ्चो रोमविक्रिया ॥”)



Correction: