संस्कृत-शब्दकोशः

रोमाञ्चिका रोमाली

रोमाञ्चित

वाचस्पत्यम्

रोमाञ्चित ||‍ त्रि० रोमाञ्चः जातोऽस्य तार० इतच् । जात- पुलके त्रिका० ।


शब्दकल्पद्रुमः

रोमाञ्चितः || त्रि (रोमाञ्चः सञ्जातोऽस्येति । रोमाञ्च + “तदस्य सञ्जातं तारकादिभ्य इतच् ।” ५ । २ । ३६ । इति इतच् ।)
जात- पुलकः । रोमाञ्चविशिष्टः । तत्पर्य्यायः । हृष्ट- रोमा २ । इति त्रिकाण्डशेषः ॥ (यथा, मार्कण्डेये । १०० । २० । “स च शान्तिगते वह्नौ परितुष्टेन चेतसा । हर्षरोमाञ्चिततनुः प्रविवेशाश्रमं गुरोः ॥”)



Correction: