संस्कृत-शब्दकोशः

रोमावलि रोमाश्रयफला

रोमावली

वाचस्पत्यम्

रोमावली is an alternate of रोमावलि. रोमावलि(ली) ||‍ स्त्री ६ त० । १ रोमश्रेणौ २ नाभेरुर्ध्वस्थरो- मपड्क्तौ तदुपलक्षिते ३ तारुण्यावस्थायाञ्च हेमच० ।


शब्दकल्पद्रुमः

रोमावली || स्त्री (रोम्णामावली ।)
नाभेरूर्द्ध्व- लोमश्रेणी । तत्पर्य्यायः । रोमलता २ । इति हेमचन्द्रः । ३ । २७० ॥ रोमाली ३ । इति शब्दमाला ॥ लोमराजी ४ । यथा, —
“तस्याः प्रविष्टा नतनाभिरन्ध्रं रराज तन्वी नवलोमराजी । नीवीमतिक्रम्य सितेतरस्य तन्मेखलामध्यमणेरिवार्च्चिः ॥” इति कुमारसम्भवम् ॥ सा च यौवनारम्भे भवति । अज्ञातयौवना यथा, —
“नीरात्तीरमुपागता श्रवणयोः सीम्नि स्फुर- न्नेत्रयोः श्रोत्रे लग्नमिदं किमुत्पलमिति ज्ञातुं करं न्यस्यति । सैवालाङ्कुरशङ्कया शशिमुखी रोमावलीं प्रोञ्छति श्रान्तास्मीति मुहुः सखीमविदितश्रोणीभरा पृच्छति ॥” इति रसमञ्जरी ॥



Correction: